SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ ३८६ ॥ Jain Education Intern लीनां कङ्कतीकरणं शाल्मलीमुद्रा ज्ञानप्रकाशिनी ३३, दक्षिणकरे अधोमुखे प्रसारिताङ्गुलौ निरालम्बे स्थापिते | कन्दुकमुद्रा विद्वेषणकरी ३४, दक्षिणहस्तस्य ऊर्ध्वकृतस्य किंचिदाकुञ्चिताङ्गुलीयोजनं नागफणमुद्रा विषलूतादिहरी ३५, दक्षिणे करे योजितप्रदेशिन्यङ्गुष्टे निरालम्बधारिते मालामुद्रा पूजाकर्मोपयोगिनी ३६, ऊर्ध्वकृते दक्षिणे भुजे करतले च लम्बिते पताकामुद्रा सर्वविघ्नोपशान्तये ३७, बद्धमुष्टेः करस्य कम्पनं घण्टामुद्रा पूजाद्युपयोगिनी ३८, दक्षिणकरस्य वामकराच्छोटनं प्रायश्चित्तविशोधिनी मुद्रा यथाजाताभिधाना ३९, नासाये दक्षिणाङ्गुष्टतर्जन्योः स्थापनं नाभौ वा भाले वा भ्रूमध्ये वा ज्ञानकल्पलतामुद्रा योग सिद्धिकरी ४०, अङ्गुष्ठे अङ्गुलीसमूहात्पृथकृते अङ्गुलीसमूहे चलिते नाभेरारभ्य द्वादशान्तनयनं मोक्षकल्पलतामुद्रा यथार्थाभिधाना ४१, भुजयोः कूर्परादारभ्य मीलितयोरङ्गुलीप्रसारणं कल्पवृक्षमुद्रा सर्ववाञ्छितप्रदा ४२ । द्विचत्वारिंशदाख्याता एवं मुद्रा महागमे । कार्यकार्योपयोगिन्य इतराः कल्पिता बुधैः ॥ १ ॥ अन्तर्धानं पुनस्तासामेताखेव प्रजायते । | तेन कर्मान्तराण्येव मुद्राख्याविदितानि च ॥२॥ अङ्कुशाकारकरणादाङ्कुशी पाशमध्यगा । स्नानमाकुञ्चितं चैव तत्तत्कर्मवदीरितं ॥३॥ समाधानस्य मुद्रास्तु खसमाधानतोऽखिलाः । मुद्राकवच संज्ञा तु देहरक्षाविधानतः ॥ ४॥ तर्जन्यागममुद्रास्तु तत्तच्चेष्टाविधानतः । आच्छोदनादिकर्माणि तथा दिग्बन्धनानि च ॥ ५ ॥ कर्मान्तरैरसं | ख्यानि विज्ञेयानि मनीषिभिः । एवं मुद्राः समस्तास्तु कथिताः शान्तिकादिषु ॥ ६ ॥ कर्मान्तरेषु सर्वेषु गृहियत्यनुसारिषु । तथोभयोचितेष्वेव मुद्रा एव हि कारणं ॥ ७ ॥ इति पदारोपाधिकारे मुद्राकीर्तनं संपूर्ण ॥ For Private & Personal Use Only विभागः २ पदारोप विधिः ॥ ३८६ ॥ www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy