SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ योजितकरभौ प्रार्थनामुद्रा वाञ्छितप्रदा १६, आकुञ्चिते दक्षिणहस्ते प्रसारिते भूसंमुखं कृते वामहस्तेन धृते पशुमुद्रा विघ्नापहारिणी१७, मुकुलीकृतपञ्चाङ्गुलौ वामहस्ते प्रसारितदक्षिणकरस्थापनं छत्रमुद्रा प्रभुत्वकरी १८, वज्राकारकृतयोर्भुजयोः स्कन्धद्वये हस्तस्थापनं प्रियंकरी मुद्रा स्तम्भनकरी १९, पद्मासनस्थितस्य वामहस्तस्य उत्सगस्थापनं दक्षिणहस्तस्य सजापस्य हृदि निधानं गणधरमुद्रा सर्वलब्धिकरी २०, योगपट्टासनस्थस्य वामहस्तकरौ जानुस्थं वा शिरो योगमुद्रा २१, खेच्छासुखासनासीनस्य वामहस्ते प्रसारिते उत्सङ्गधृते तदुपरि दक्षिणहस्ते कच्छपाकारधृते कच्छपमुद्रा स्तम्भनकरी २२, पद्मासनस्थस्य वामबाही प्रलम्बिते भूमावलग्ने दक्षिणे करे च दक्षिणाशागते बद्धमुष्टौ ऊर्ध्वस्थितस्य वा सैव स्थितिः धनुःसंधानमुद्रा सर्वभयहरी २३, सौभाग्यमुद्रेव मध्यमाद्वयमध्ये स्थापितया कनिष्ठिकया योनिमुद्रा वाञ्छितार्थकरी २४, सुखासनस्थस्य दक्षिणकरे बद्धमुष्टाPीकृते दण्डमुद्रा कुलवृद्धिकरी २५, उत्कटिकासनस्थस्य वामकरे भूमौ स्थापिते दक्षिणकरे च अभयवत्कृते । सिंहमुद्रा भयहरी २६, करद्वयमध्यमासावित्र्योरग्राग्रयोजितयोः शक्तिमुद्रा प्रतिष्ठाद्युपयोगिनी २७, तर्जनीमध्यमयोरङ्गुष्ठाधःस्थापितयोः सावित्रीकनिष्ठिकाप्रसारणात् शङ्खमुद्रा सर्वार्थजयदायिनी २८, कनिष्ठातर्जन्यो वज्राकृतीकृतयोर्मध्यमासावित्र्योर्वक्रीकरणं पाशमुद्रा स्तम्भकरी २९, हस्तौ मीलिताङ्गुली सरलीकृतौ खड्गव। स्थापितौ खड्गमुद्रा विघ्नविच्छेदिनी ३०, कर्णपार्श्वे बद्धमुष्टौ दक्षिणकरे धारिते कुन्तमुद्रा जनरक्षाकरी ३१, दक्षिणबाहौ आकुञ्चिते प्रसारिताङ्गुलौ पाणी वृक्षमुद्रा शान्तिकरी ३२, बाहुद्वये परस्परं वल्लीवद्वेष्टिते कराड CCCCCCCC0%-515 Jan Education interna For Private & Personal Use Only www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy