________________
आचार
दिनकरः
॥ ३७३ ॥
Jain Education Intern
विभागः २
न्यावर्ततपः । बृहन्नन्द्यावर्तविधिसंख्य यैकाशनादिभिः । पूरणीयं तपश्चोद्यापने तत्पूजनं महत् ॥ १ ॥ नन्यावर्ताराधनार्थं तपः नन्द्यावर्ततपः । तत्र प्रथममुपवासो नन्द्यावर्ताराधनाय । ततः सौधर्मेन्द्रईशानेन्द्र श्रुतदे- & तपोविधिः वतानामाचाम्लत्रयं । ततोऽर्हदादि अष्टकानां आराधनार्थं अष्ठाचाम्लानि । ततश्चतुर्विंशतिजिनमात्राराधनार्थ चतुर्विंशतिरेकभक्तानि । ततः षोडशविद्यादेव्याराधनार्थे षोडशैकभक्तानि । ततश्चतुर्विंशतिलोकान्तिकाराधनार्थं चतुर्विंशतिरेकभक्तानि । ततश्चतुःषष्टीन्द्राराधनार्थं चतुःषष्टिरेकभक्तानि । ततश्चतुष्षष्टीन्द्र| देव्याराधनार्थं चतुष्षष्टिरेकभक्तानि । ततश्चतुर्विंशतिशासनयक्षाराधनार्थं चतुर्विंशतिरेकभक्तानि । ततश्च|तुर्विंशतिशासनय क्षिण्याराधनार्थं चतुर्विंशतिरेकभक्तानि । ततो दशदिक्पालाराधनार्थं दशैकभक्तानि । ततो ग्रहक्षेत्रपालाराधनार्थ दशैकभक्तानि । ततश्चतुर्णिकायदेवताराधनार्थं चत्वार्येकभक्तानि । ततः सर्वाराधनार्थमुपवासः । अत्रोपवासद्वयं एकादशाचाम्लानि द्विशती चतुःषष्ट्युत्तरा एकभक्तानां । एवं सप्तसप्तत्यधिकेन दिनशतद्वयेन पूर्यते । यन्त्रकन्यासः । उद्यापने चैत्ये बृहत्स्नानविधिः धर्मागारे नन्द्यावर्तपूजा प्रतिष्ठा विधिवत् । संघपूजा संघवात्सल्यं । एतत्फलं परलोके तीर्थकरनामकर्म इहलोके सर्वर्द्धयः सर्वदैवतसान्निध्यं । इति यतिश्राद्धकरणीयमागाढं बृहन्नन्द्यावर्ततपः ॥ २६ ॥ ॥ अथ लघुनन्द्यावर्ततपः । नन्द्यावर्ताराधनार्थं तपः नन्द्यावर्ततपः । लघोश्च नन्द्यावर्तस्य तपः कार्ये विशेषतः । तदाराधनसंख्याभिरुद्यापनमिहादि
१ पद्मोत्तरतपः २९ अस्या कृतिरस्मिन्प्रन्थेऽन्यत्र योजितास्ति । २ अस्याकृतिरप्यन्यत्र योजितास्ति ।
For Private & Personal Use Only
॥ ३७३ ॥
www.jainelibrary.org