________________
आचारदिनकरः
॥ ३४५ ॥
Jain Education Intern
च पञ्चविधाप्यूनोदरिका प्रत्येकं त्रिभेदा भावनीया । सा यथा । एकादिभिः कवलैर्जघन्या यादिभिर्मध्यमा अष्टादिभिरुत्कृष्टा । एवं पञ्चविधापि ततद्भागकवलैस्त्रिविधा ज्ञेया । तत्राल्पाहारा एकग्रासेन जघन्या द्वित्रिचतुःपञ्चग्रासैर्मध्यमा षट्सप्ताष्टग्रासैरुत्कृष्टा १ । उपार्धा नवग्रासैर्जघन्या दशैकादशग्रासैर्मध्यमा द्वादशभिरुत्कृष्टा २ । द्विभागा त्रयोदशभिर्ग्रासैर्जघन्या चतुर्दशपञ्चदशभिर्मध्यमा षोडशभिरुत्कृष्टा ३ । प्राप्ता सप्तदशाष्टादशभिर्ग्रासैर्जघन्या एकोनविंशतिविंशत्येकविंशतिद्वाविंशतिभिर्मध्यमा त्रयोविंशतिचतुर्विंशतिभिरुत्कृष्टा ४ । किंचिदूना पञ्चविंशतिषड्विंशतिग्रासैर्जघन्या । सप्तविंशत्यष्टाविंशत्येकोनत्रिंशद्भिर्मध्यमा । त्रिंशदेकत्रिंशद्भिरुत्कृष्टा ५ । एवं द्वात्रिंशत्कवलसंख्यया पुरुषस्यैवमूनोदरिका पञ्चदशदिनैः पूर्यते । स्त्रियास्तु सप्तविंशतिकवलानुसारेण तत्तद्भागैः पञ्चविधाप्यूनोदरिका । सा यथा । एकादिसप्तान्तैरल्पाहारा १ । अष्टाद्येकादशान्तैरुपार्धा २ । द्वादशादिचतुर्दशान्तैर्द्विभागा ३ । पञ्चदशाद्येकविंशत्यन्तैः प्राप्ता ४ । द्वाविंशत्यादिसप्तविंशत्यन्तैः किंचिदूना ५ । एभिरपि जघन्यमध्यमोत्तमभागैः प्रत्येकं त्रिधा । यथा । अल्पाहारा एकद्विग्रासा जघन्या त्रिचतुःपञ्चग्रासा मध्यमा षट्सप्तग्रासा उत्कृष्टा १ । उपार्धा अष्टग्रासा जघन्या नवग्रासा मध्यमा | दशैकादशग्रासा उत्कृष्टा २ । द्विभागा द्वादशग्रासैर्जघन्या त्रयोदशभिर्मध्यमा चतुर्दशभिरुत्कृष्टा ३ । प्राप्ता पञ्चदशषोडशभिर्ग्रासैर्जघन्या सप्तदशाष्टादशैकोनविंशतिग्रासैर्मध्यमा विंशतिएकविंशतिग्रासा उत्कृष्टा ४ । किंचिदूना द्वाविंशतित्रयोविंशतिग्रासा जघन्या चतुर्विंशतिपञ्चविंशतिग्रासा मध्यमा षडूिंशतिसप्तविं
For Private & Personal Use Only
विभागः २ तपोविधिः
॥ ३४५ ॥
www.jainelibrary.org