________________
आ. दि.५९
Jain Education Interna
'येन तीर्थकृता येन तपसा मुक्तिराप्यते । तत्तत्तथा विधेयं स्यादेकान्तरितवृत्तितः ॥ १ ॥ यथा - निर्वाणमंतकिरिया सा चउदसमेण पढमनाहस्स । सेसाणं मासिएणं वीरजिणंदस्स छट्टेणं ॥ १ ॥ निर्वाणेनोपलक्षितं तपः प्रथमजिनेन्द्रस्य चतुर्दशमभक्तेन शेषाणां मासोपवासेन वीरस्य षष्ठेन एवमेकान्तरिकैकभक्तैर्विधेयानि । यत्र कन्यासः । उद्यापने बृहत्स्नात्रपूर्वं चतुर्विंशति संख्यया सर्व फलनैवेद्यपकान्नढौकनं साध्वचनं संघपूजा च । एतत्फलं भवाष्टकान्तर्मोक्षप्राप्तिः । इति यतिश्राद्धकरणीयमागाढं निर्वाणतपः ॥ अत्र दीक्षाज्ञाननिर्वा तपसां कल्याणकतपस्यप्यन्तर्भावोस्ति । परंत्वेष विशेषः कल्याणकतपसां आगाढतया कल्याणकदिनानां प्रत्याख्यान स्पर्शेन संपद्यते । एतानि यथायोगमनागाढतया तत्कृततपःसंख्यया यथायोगेन संपद्यन्ते । एकस्मि न्दिने च्यवनादिकल्याणकद्वये एकैकस्य जिनस्य वा दिनद्वयस्य वा आराधनं कृत्वा भोक्तव्यं पारणकं कर्तव्यमित्यर्थे नियमो नास्ति । परं दीक्षाज्ञाननिर्वाणकल्याणकत्रयेपि दिनत्रयस्याराधनं कृत्वा ततः पारणं विधेयं । एकस्याराधनं कृत्वा न करणीयं । एतानि तपस्येकान्तरोपवासैः कर्तव्यानि ॥ १० ॥ ॥ अथ कनोदर्यतपः । तच पञ्चविधमागमे । यथा । अप्पाहार १ अवड्डा २ दुभाग ३ पत्ता ४ तहेव देसृणा ५ । अट्ठ ८ दुवालस १२ | सोलस १६ चडवीस २४ तहिकतीसाय ३१ ॥ १ ॥ ऊनोदरस्य भाव ऊनोद १ । अथ यथासंख्यसम्बन्धः । स यथा । एकादिभिरष्टान्तैः कवलैरल्पाहारा १ नवादिभिर्द्वादशान्तैः कवलैरपार्धा २ त्रयोदशादिभिः षोडशान्तैर्द्विभागा ३ सप्तदशा दिभिश्चतुर्विंशत्यन्तैः प्राप्ता ४ पञ्चविंशत्यादिभिरेकत्रिंशदन्तैः किंचिदूना ५ । इयं
For Private & Personal Use Only
www.jainelibrary.org