SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ AAAAMKARANA अतिक्रान्ते पर्वणि यदालोचनादितपः क्रियते तदतिक्रान्तं २, एकस्य तपसः समाप्तौ द्वितीयतपस आरम्भे तद्दिन एव प्रत्याख्यानेन कोटिद्वयमीलनं कोटिसहितं ३, मासे मासे इयन्ति दिनानि अष्टमादिविधेयमेव ग्लानत्वेपि सति तन्नियन्त्रितं ४, एतच्च प्रथमसंघननेन सह व्यवच्छिन्नं सहसाकारैर्महत्तरादेर्वचस इति साकारं ५, आकारैर्वर्जितमनाकारं ६, यत्र दत्तिकवलसंख्यादि तत्परिमाणकृतं ७, सर्वचतुर्विधाहारकृतपरित्यागानिरवशेषं ८, अङ्गुष्ठमुष्टिग्रन्थादिचिह्नोपलक्षितं संकेतनं ९, अद्धा कालस्तदुपलक्षितं अद्धाप्रत्याख्यानं १०॥ एतद्दशधा यथा । 'नवकार १ पोरिसीए २ पुरिमढि ३ इक्कासणे ४ गट्ठाणेअ५ । आयंबिल ६ अभत्तढे ७ चरमेय ८ अभिग्गहे ९ विगइ १०॥१॥ नमस्कारसहितं दिनोदये घटीद्वयपर्यन्तं १, पौरुषी पुरुषप्रमाणच्छायया प्रहरमात्रादिनोदये २, पूर्वार्धमध्याह्नपर्यन्तं ३ एकासनं एकेनासनेन एकवेलं भोजनं ४, एकस्थानं आकुञ्चितप्रसारितादिवर्जितमेकासनं ५. आचाम्लं एकवेलमेकान्नजलभोजनं ६, अभक्तार्थ उपवासः त्रिविधाहाररहितो वा ७, चरमं दिवसचरम भवचरमपर्यन्तं प्रत्याख्यानं ८, अभिग्रहो ग्रन्थिमुष्टिपर्यन्तं प्रत्याख्यानं ९, विकृतिः विकृतीनां सर्वथा त्यागः संख्या वा १०॥ अथैषामागारसंख्या । 'दो चेव नमुक्कारे आगारा छच्च पोरसीए उ । सत्तेव य पुरिमड्ढे एगासणम्मि अटेव ॥१॥ सत्तेगट्ठाणस्स उ अद्वेव य अंविलम्मि आगारा। पंचेव य अभत्तट्टे छप्पाणे चरमचत्तारि ॥२॥ पंच चउरो अभिग्गहो निबीए अट्ठनवय आगारा। अप्पावरणे पंचउ हवंति सेसेसु चत्तारि ॥३॥ नमस्कारसहिते द्वावेवाकारौ यथा । 'उग्गए सूरे नवकार Jan Education Inter For Private & Personal Use Only RIwwwjainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy