________________
आचारदिनकरः
॥ २९१ ॥
Jain Education Int
वक्ता २७ तथा भिक्षावेला वर्तत इत्यादि भणित्वा धर्मकथायां पर्षत्ता २८ अनुत्थितायामेव गुरुधर्मकथापर्षदि द्वितीयतृतीयवारं स्वयं कथयिता तथैव तस्य सूत्रस्यायमर्थोऽयमप्यर्थ इति गुरुकथितान्विकल्पयिता २९ गुरोः शय्यासंस्तारकादेः पादेन संघयिता ३० गुरुशय्यासंस्तारकादौ स्थाननिषीदनशयनादिकर्ता ३१ उच्चासने निषदनशयनकर्ता ३२ समानासने वैतत्कर्ता ३३ एतास्त्रयस्त्रिंशदाशातनाः ॥
अधाशातनाप्रतिक्रमणं । एतत्सातिचारं निरूप्य प्रत्येक महदादीनामाशातनाप्रतिक्रमणमाह- अरिहंताणं आसायणाए सिद्धाणं आसायणाए आयरियाणं आसायणाए उवज्झायाणं आसायणाए साहूणं आसायणाए साहूणीणं आसायणाए सावगाणं आसायणाए सावियाणं आसायणाए देवाणं आ० देवीणं आ इहलोगस्स आ० परलोगस्स आ० केवलीणं आ० केवलिपन्नत्तस्स धम्मस्स आ० सदेवमणुयासुरस्स लोगस्स आ० सङ्घपाणभूयजीवसत्ताणं आ० कालस्स आ० सुयस्स आ० सुयदेवयाए आ० वायणाय रियस्स आसायणाए जं वाइढुं विद्यामेलियं हीणक्खरियं अचक्खरियं पणयहीणं विणयहीणं घोसहीणं जोगहीणं सुहृपडिच्छियं दुहुपडिच्छियं । अकालेकओ सज्झाओ काले न कओ सज्झाओ असज्झाए सज्झाइयं सज्झाए न सज्झाइयं तस्स मिच्छामि दुक्कडं || आर्हतानामाशातनया तन्निन्दाकर्मविचारणा स्वरूपविरूपभाषणरूपया सिडानामाशातनया तेषां नास्तित्वख्यापनादिकया । आचार्याणां आशातनया त्रयस्त्रिंशद्रपया । उपाध्यायानां आशातनया त्रयस्त्रिंशद्रूपया । साधूनां आशातनया तज्जुगुप्सारूपया । साध्वीनां
For Private & Personal Use Only
विभागः २
आवश्यकविधिः
XL
॥ २९१ ॥
www.jainelibrary.org