SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥ २८१ ॥ Jain Education Intern चनं संपूर्ण ॥ ॥ अथ क्षामणं यथा - इच्छाकारेण संदिसह भगवन् देवसियं खामेमि इत्थं खामेमि देवसियं जं किंचि अपत्तियं परपत्तियं भत्ते पाणे विणेए वेयावचे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जं किंचि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा तुभे जाणह । अहं न जाणामि तस्स मिच्छामि दुक्कडं | इच्छाकारेण संदिशतु भगवन् दैवसिकमपराधं क्षमयामि । इच्छया क्षमयामि । दैवसिकं | यत्किंचिदप्रत्ययं अप्रतीतिजनकं परप्रत्ययं परानुषंग्यविनयं परोपदेशाद्वा अपराद्धं । क इत्याह । भक्ते अशने पाने जले विनये प्रसिद्धे वैयावृत्ये प्रसिद्धे आलापे संभाषणे संलापे प्रत्युत्तरे उच्चासने समासने गुरोरुचसमानयोरित्यर्थः । अन्तर्भाषायां गुरौ कथयत्यन्तः कथाक्षेपे उपरिभाषायां गुरोः कथितं विषयं विखण्ड्य खभाषास्थापने यत्किंचिन्मम विनयपरिहीनं कर्म आशातनारूपं सूक्ष्मं वा बादरं वा यूयं जानीध्वे अहं न जाने तस्य मिथ्या मे दुःकृतं । अशने पाने आशातनाः त्रयस्त्रिंशदाशातनासु कथिताः । अत्र गुरुज्येष्ठादिवचनं खामेह अहमवि खामेमि तुभे जं किंचि अप० पर० अविणया सारिया वारिया चोइया पडिचोइया तस्स मिच्छामि । क्षमयस्व क्षमयथ क्षमयध्वं यत्किंचि० पूर्ववत् । अविनयात् अविनयकरणात् ग्रहणात् मूलगुणोत्तरगुणलङ्घनादपि यूयं स्मारिताः कर्तव्यविस्मृतौ तत्कर्तव्यं चित्त आनीताः वारिता अकार्ये नि| षिद्धाः चोदिताः प्रेरिताः प्रतिचोदिताः प्रत्येकं कार्येपि शिक्षिताः तस्य मिथ्या मे दुःकृतं ॥ संघादिक्षामणं यथा - 'आयरिय उवज्झाए सीसे साहम्मिए कुलगणेंय । जे मे कया कसाया सबै तिविहेण खामेमि ॥ १ ॥' For Private & Personal Use Only |विभागः २ आवश्यक विधिः ॥ २८१ ॥ www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy