________________
आचारदिनकरः
॥ २८० ॥
5444
Jain Education Inter
निक्कंखिय २ निधितिमिच्छा ३ अमूढदिट्ठीअ ४ । उअवूढ ५ थिरीकरणे ६ वच्छिल ७ पभावणे ८ अट्ठ ॥ १ ॥' दर्शने अष्टभेदा यथा - निश्शङ्कितं शङ्कादोषरहितत्वं । निःकाङ्क्षितं काङ्क्षादोषरहितत्वं । शङ्काकाङ्क्षयोर्व्याख्यानं प्रतिक्रमणसूत्रादवसेयं । निर्विचिकित्सा जिनोक्ततत्वेषु निःसंशयत्वं । अमूढदृष्टिस्तत्वातत्वापराम शिनी बुद्धिः । उपबृंहणं अर्हन्मतस्य स्वशक्त्या स्थापनं पोषणं च । स्थिरीकरणं अर्हन्मते खपरयोः कारणान्तरसहस्रेपि निश्चलत्वकरणं । वात्सल्यं अर्हन्मताश्रिततत्त्वसाधुश्राद्धादिषु स्निग्धत्वं । प्रभावनं जिनशासनस्योद्भावनं ॥ यतीनां अष्टप्रकारं यथा - 'पावयणी १ धम्मकही २ वाई ३ नेमित्तिओ ४ तवस्सीय ५ । विज्जा ६ सिद्धोअ ७ कवी ८ अट्ठेव पभावणा भणिया ॥ १ ॥ श्राद्धानां तु प्रभावनं समक्षेत्रेर्विपुलद्रव्यव्ययैरर्हन्मतप्रत्यनीकच्छेदैः स्वमताश्रितपोषणैः ॥ चारित्राचारो यथा - 'पणिहाणजोगजुत्तो पंचहि समिईहिं तीहि गुतीहिं । एस चरित्तायारो अट्टविहो होइ नायवो ॥ १ ॥ पञ्चभिः समितिभिस्तिसृभिर्गुप्तिभिः पूर्वोक्ताभिः प्रणिधान योगयुक्तः समाधानयुक्तिसहितः एष चारित्राचारः अष्टविधो भवति ज्ञातव्यः । पञ्चभिः समिति - भिस्तिसृभिर्गुप्तिभिरष्टकं परं समाधानयोगयुक्तिसहितः एष चारित्राचारः योगयुक्तयैव न कदाचिदसमाधि| भाजां चारित्रं ॥ अथ तपआचारो यथा - 'बारसविहम्मिवि तवे सम्भितरबाहिरे कुसलदिट्ठी । अगिला अणाजीवी नायवो सो तवायारो ॥ १ ॥ द्वादशविधेपि तपसि साभ्यन्तरबाह्ये कुशलदृष्टिः सुपरीक्षिणी बुद्धि: स तपआचारो ज्ञातव्यः ॥ अभ्यन्तरं षड्विधं तपो यथा - 'प्रायश्चित्तं १ विणओ २ वेयावचं ३ तहेव
For Private & Personal Use Only
विभागः २
आवश्यकविधिः
॥ २८० ॥
www.jainelibrary.org