________________
आचार
दिनकरः
॥ २७५ ॥
Jain Education Interna
नकानि १, स्वाध्यायकरणे स्वाध्यायप्रस्थापने वा २, कायोत्सर्गे विकृत्याद्यनुज्ञारूपे ३, अपराधक्षामणे च ४, प्राघूर्णे समागते ५, आलोचनायां प्रायश्चित्तविधौ ६, संवरणे दिवसचरिमादिप्रत्याख्याने करणेन उपवासप्रत्याख्याने च ७, उत्तमार्थे आराधनादिकर्मणि ८, एवं १९२ ॥ षट् दोषा यथा- 'माणे १ अविणय २ खिंसा ३ नीयागोयं ४ अबोहि ५ भवबुढी ६ । अनमंते षद्दोसा एवं अडन अड्डाणसयं ॥ १ ॥' मानोऽहंकारः १, अविनयः विनयस्य भङ्गः २, खिसा गुरुहीला निन्दा च ३, नीचैर्गोत्रं नीचकुलावाप्तिः ४, अबोधिर्बोधिलाभस्य अभावः ५, भववृद्धिः संसारभ्रमणं ६, अनमतां वन्दनकमकुर्वतां अमी षट् दोषाः एवं अष्टनवत्युत्तरशतं १९८ वन्दनकस्थानानि ॥ अथ वन्दनकस्य व्याख्यानमुच्यते - शिष्यः श्राद्धो वा विधिवन्मुखवस्त्रिकां खाङ्गं च प्रतिलिख्य करद्वयगृहीतमुख वस्त्रिकारजोहरणः केवलमुखवस्त्रिकाघधरो वा ईषन्नतो वन्दनसूत्रमित्थं वदति । यथा - 'इच्छामि खमासमणो वंदिउं जावणिजाए निसीहिआए मत्थेणं वंदामि । इच्छामि अभि लिखामि हे क्षमाश्रमण श्राम्यति मोक्षार्थं दशविधधर्माचरणेनेति श्रमणः क्षमया उपलक्षितः श्रमणः क्षमाश्रमणः तस्य संबोधनं । वन्दितुं नमस्कर्तुं यापनीयया याप्यते कालः क्षिप्यते यया सा यापनीयता तथा शक्तिसमन्वितयेत्यर्थः । नैषेधिक्या निषेधः प्राणातिपातादिनिवृत्तिरूपः प्रयोजनं यस्याः सा नैषेधिकी तया नैषेधिक्या इति इच्छामि निवेदनं प्रथमं स्थापनं । अत्रान्तरे यदि व्याक्षिप्तो गुरुस्तदा भणति प्रतीक्षखेति त्रिविधेन मनोवाक्कायैः संक्षेपेण वन्दखेति । तदा शिष्यः संक्षिप्तवन्दनेन मत्थेण वन्दामि इति कथयित्वा
For Private & Personal Use Only
विभागः २
आवश्यकविधिः
।। २७५ ।।
www.jainelibrary.org