________________
Jain Education Interna
स्वाध्यायश्चतुर्विधः - वाचना ९ प्रच्छना २ आम्नाय ३ आगम ४ रूपः । तत्र सप्ततत्वरूपस्य जिनाज्ञारूपस्य जिनागमस्य परिपाटीपाठो वाचना । गुरुबहुश्रुतेभ्य आगमार्थप्रश्नः श्रवणं च प्रच्छना । सूत्रार्थसहितोभ्यासो गुरुपरम्परापरिज्ञानमाम्नायः । सर्वरहस्यगर्भसूत्रपाठ आगमः । एवं चतुर्विधस्वाध्यायेन कालातिक्र| मणं सामायिके । परमेष्ठिमन्रजापस्तु सर्वाघहरणः । स यथा-नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवझ्झायाणं नमो लोए सबसाहूणं । एसो पंचनमुक्कारो सवपावप्पणासणो । मंगलाणं च सवेसिं पढमं हवइ मंगलं ॥ १ ॥ नमोऽद्भ्य इति । अर्हन्ति समस्तसुरासुरेन्द्रकृतपूजामित्यर्हन्तः । यत उक्तमागमे'अरिहंतवंदणनमंसणाइ अरिहंति पूयसक्कारं । अर्हति सिद्धिगमणं अरिहंता तेण वुञ्चति ॥ १ ॥' अतएव अर्हतः चतुस्त्रिंशदतिशयपञ्चत्रिंशद्वचनगुणयुक्ता अष्टादशदोषरहिता भवन्ति । एतदात्यलक्षणं तेभ्यो नामस्थापनाद्रव्यभावरूपेभ्योऽर्हयो नमोस्तु मनोवाक्कायैः साष्टाङ्गप्रणामोस्तु ॥ नमः सिद्धेभ्य इति । सिधन्ति स्म मुक्तिशिलां गच्छन्ति स्मेति सिद्धाः । अथवा निरुक्तेन सितमस्तोककालेन बद्धं कर्म धमातं भस्मीकृतं | यैस्ते सिद्धाः । यत उक्तं- 'दीहकालरयं जं तु कम्मं सेसिय महा । सिअं धंतंति सिद्धस्स सिद्धत्तमुवजायइ ॥ १ ॥' तेभ्यो नमः नामस्थापनाद्रव्यभावरूपेभ्यः सिद्धेभ्यो नमोस्तु मनोवाक्कायैः साष्टाङ्गप्रणामोस्तु ॥ नम आचार्येभ्य इति । आचारं ज्ञानदर्शनचारित्रतपोवीर्यरूपं स्वयमाचरणेन प्रकाशनेन चाचरन्तीत्याचार्याः । यत उक्तमागमे - पंचविहं आयारं आयरमाणा तहा पयासंता । आयारं दंसंता आयरिया तेण वुचंति ॥ १ ॥
For Private & Personal Use Only
www.jainelibrary.org