________________
Jain Education Intern
'त्रिषडेकादशे रवौ ॥ ३४ ॥ हिबुकोदय नवमाम्बरपञ्चमगृहगः सितोऽथवा जीवः । लघु हन्ति लग्नदोषांस्तट रुह | इव निम्नगावेगः || ३५ || लग्नं दोषशतेन दूषितमसौ चन्द्रात्मजो लग्नगः केन्द्रे वा विमलीकरोति सुचिरं यद्यर्कविम्बाच्युतः । शुक्रस्तद्विगुणं सुनिर्मलवपुर्लग्न स्थितो नाशयेत् दोषाणामघलक्षमप्यपहरेल्लग्नस्थितो वाक्पतिः ॥ ३६ ॥ ये लग्नदोषाः कुनवांशदोषाः पापैः कृता दृष्टनिपातदोषाः । लग्ने गुरुस्तान् विमलीकरोति फलं यथाम्भः कतकद्रुमस्य ॥ ३७ ॥ सुतहिवुकवियद्विलग्नधर्मेप्यमर गुरुर्यदि दानवार्चितो वा । यदशुभमुपयाति तच्छुभत्वं शुभमपि वृद्धिमुपैति तत्प्रभावात् ॥ ३८ ॥ इत्यनेनानुमानेन नवांशस्यानुसारतः । कार्या षडुर्गसंशुद्धिः स्थापनादीक्षयोः शुभा ॥ ३९ ॥ कार्यमात्यन्तिकं चेत्स्यात्तदा बहुगुणान्वितम् । खल्पदोषं समाश्रित्य लग्नं तत्सर्वमाचरेत् ॥ ४० ॥" इत्येवंविधे लग्ने प्रतिष्ठा विधेया । तत्रोत्कृष्टत्वेन धनुःशतं क्षेत्रशुद्धिः, मध्येन धनुःपञ्चाशत् जघन्येन धनुःपञ्चविंशतिक्षेत्रशुद्धिर्विधेया । क्षेत्रशुद्धियुक्तिर्यथा - शुद्धमृत्तिकापर्यन्तं भूमिखननं, ततः काष्ठास्थिचर्म केशनखदन्ततृणामेध्यावकराणां दूरतोपसारणं तत्र च गौरसुरभिमृत्स्नापरिक्षेपः, तत उपरि गोमूत्रगोमयस्थापनं, ततो देशे वा तत्र नगरे ग्रामे वा दिनसप्तकममारिघोषणं राज्ञो |देशनगराधिपतेः बहुपदादानपूर्वकमनुज्ञाग्रहणं, स्थपतिभ्यो वस्त्रकेयूरकटकमुद्रिकादिदानम् । प्रतिष्ठायां करणीयानि यथा - पञ्चाशद्योजनमध्ये गताचार्योपाध्याय साधुसाध्वीश्रावकश्राविकाणामाह्वानं कौसुम्भस्सूत्रकौसुम्भवस्त्ररञ्जनं कुमारीकर्तितसूत्रप्रगुणीकरणं पवित्रस्थानात् समस्तकूपवापीतडागनिर्झरत दिनीविवरिको
For Private & Personal Use Only
v jainelibrary.org