________________
+%
A
4%A40C4OCAL
मुनीश्वरैः॥९॥ आशातनायां देवस्य गुरोः स्थाप्यगुरोरपि । शान्तेश्च स्थापनाचार्यनाशे शीतमुदाहृतम् | ॥१०॥ कालातिक्रम आदिष्टस्त(2)स्यैवाप्रतिलेखने । अवतारणकादीनां करणे ग्राह्यमिष्यते ॥११॥ शङ्कादिपञ्चके कार्य देशादेव विलम्बकम् । तत्राचार्यस्य परमं पाठकस्य च धातुहृत् ॥१२॥ आचार्यस्य पाठकस्य मुक्तं शीतं क्रमाकचित् । इत्येवं दर्शनाचारे प्रायश्चित्तमुदाहृतम् ॥ १३ ॥ व्रते प्राणातिपाताख्ये पृथव्यप्तेजोमरुत्वताम् । प्रत्येकशाखिनां चैव संस्पर्शे विरसं विदुः ॥१४॥ अगाढतापे पूर्वाध गाढतापे सुभोजनम् । विघातने पुनः शीतं वदन्ति श्रुतवेदिनः ॥ १५ ॥ सूक्ष्माम्बुतेजसोः स्पर्शे पूर्वार्ध शोधनं परम् । तयोर्वादरयोः स्पर्शे कामघ्नं विदुरादिमाः ॥१६॥ स्पर्शे जलचराणां तु प्राणाधारं विनिर्दिशेत् । जलाईवस्त्रसंघ कथयन्ति सुभोजनम् ॥१७॥ कम्बलेनाप्तेजसोश्च स्पर्शने विरसं मतम् । ज्वलने शङ्कितपदं स्पृष्टे सजलमिष्यते ॥१८॥ हरिताङ्करसंमर्दे क्रोशेक्रोशे गुरुर्गुरुः । हरितानां च संस्पर्श भूयसा बीजमर्दने ॥ १९॥ सुन्दरं किसलोन्मर्दै धर्माच्छुद्धिर्दिनेदिने । नद्युत्तारे गुरु: कार्यस्तस्माच्छुद्धिरुदीरिता ॥२०॥ तथाचानन्तकायानां चतुस्त्रियक्षदेहिनाम् । संस्पर्श पितृकालस्तु शीतं मर्दलवादने ॥२१॥ आगाढपरितापे तु प्राणाधारः प्रकीर्तितः । एषां *च गाढसंतापे सजलं शोधनं विदुः ॥ २२॥ विघाते च तथैतेषां धर्मपुण्यमपि कचित् । असंख्यद्वीन्द्रियध्वंसे
पुण्यद्वयमुदाहृतम् ॥ २३ ॥ असंख्यत्रीन्द्रियध्वंसे शुद्धयै पुण्यत्रयं विदुः । असंख्यचतुरक्षाणां ध्वंसे पुण्यचतुष्टयम् ॥ २४ ॥ असंख्यासंज्ञिनां ध्वंसे शोधनं पुण्यपञ्चकम् । षट्पदीबहुनाशे तु कर्तव्यं पुण्यपञ्चकम् ॥२५॥
For Private & Personal Use Only
Jan Education Internat
Vijainelibrary.org