________________
ISROADCAMERASACROCESS
६ नन्तरं घृतस्मात्रं नमोऽर्हत्सि० "घृतमायुर्वृद्धिकरं भवति परं जैनगात्रसंपर्कात् । तद्भगवतोऽभिषेके पातु घृतं
घृतसमुद्रस्य ॥१॥" पानीयधाराद्य० । अथ दुग्धस्नात्रं । “दुग्धं दुग्धाम्भोधेरुपाहृतं यत्सुरासुरवरेन्द्रैः। तहलपुष्टिनिमित्तं भवतु सतां भगवदभिषेके ॥२॥” पानीयधारायः । अथ दधिः । “दधि मङ्गलाय सततं ही जिनाभिषेकोपयोगतोऽभ्यधिकम् । भवतु भविनां शिवाध्वनि दधि जलधेराहृतं त्रिदशैः ॥३॥" पानीयधाराद्य० । अथ इक्षुरस० । इक्षुरसोदादुपहृत इक्षुरसः सुरवरैस्तदभिषेके । भवदवसदवथु भविनां जनयतु शैत्यं सदानन्दम् ॥४॥"पानीयधाराद्य० । ततः कस्तूरेण कर्पूरेण वा पीठिकया उद्वर्त्य कलस १०८ स्नात्रं । ततः पुनः कुसुमाञ्जलिक्षेपः । ततः सर्वौषधिस्नात्रं । “सवाषधीषु निवसति अमृतमिदं सत्यमहदभिषेकात् । तत्सर्वोषधिसहितं पञ्चामृतमस्तु वः सिद्ध्यै ॥ ५॥” ततः अङ्गप्रक्षालनं लूहनं विलेपनं च । सुरभिपुष्पैः ।। पूजनं । ततः फलपत्रपूगाक्षतधूपदीपजलनान्दीफलढौकनं । अगरूक्षेपः । शुचिस्थाले ग्रहपूजास्थापना । ॐ नमः सूर्याय इत्यादि ॥ ॥ अथ ग्रहशान्तिः । “प्रणम्य सर्वभावेन देवं विगतकल्मषम् । ग्रहशान्ति प्रवक्ष्यामि सर्वविघ्नप्रणाशिनीम् ॥१॥ सम्यक्स्तुता ग्रहाः सर्वे शान्तिं कुर्वन्ति नित्यशः । तेनाहं श्रद्धया किंचित्पूजां वक्ष्ये विधानतः ॥२॥ ग्रहवर्णानि गन्धानि पुष्पाणि च फलानि च । अक्षतानि हिरण्यानि धृपाश्च सुरभीणि च ॥ ३॥ एवमादिविधानेन ग्रहाः सम्यक्प्रपूजिताः । व्रजन्ति तोषमत्यर्थ तुष्टाः शान्ति ददाति 2 च॥४॥ बन्धूकपुष्पसंकाशो रक्तोत्पलसमप्रभः । लोकनाथो जगद्दीपः शान्ति दिशतु भास्करः ॥१॥
Jain Education inte
For Private & Personal Use Only
Ik
www.jainelibrary.org