________________
Jain Education Intern
पञ्चदश उदयः । अथ तारोपविधिः ।
इह हि गर्भाधानादारभ्य विवाहपर्यन्तैश्चतुर्दशभिः संस्कारैः संस्कृतोऽपि पुमान् न व्रतारोपसंस्कारं विनेह जन्मनि श्लाघाश्रेयोलक्ष्मीपात्रं स्यात्, परत्र च नार्यदेशादिभावपवित्रितमनुष्यजन्मखर्गमोक्षादिभाजनं स्यात् अतो व्रतारोप एव परमसंस्काररूपो नृणां । यत उक्तमागमे - "बंभेणो खत्तियो वावि वैसो सूद्दो तहेव य । पई य वावि धम्मेण हुत्तो मोक्खस्स भायणं ॥ १ ॥" अपि च - "बाहत्तरिकलाकुसला विवेअ सहिआ न ते नरा कुसला । सव्वकलाणयपवरं जे धम्मकलं ण जाणंति ॥ १ ॥ परसमयेऽपि - " उपनीतोऽपि पूज्योऽपि कलावानपि मानवः । न परत्रेह सौख्यानि प्राप्नोति च कदाचन ॥ १ ॥" अतः सर्वसंस्कारप्रधानभूतो व्रतारोपसंस्कारः कथ्यते, तस्य चायं विधिः - पूर्वे विवाहान्ताः संस्कारा गृह्यगुरुणा जैनब्राह्मणेन क्षुल्ल| केन वा भवन्ति, व्रतारोपस्तु निर्ग्रन्थगुरुणा यतिनैव भवति । गुरुगवेषणा यथा - " पञ्चमहव्वयजुत्तो पंच| विहायारपालणसमत्थो । पंचसमिओ तिगुत्तो छत्तीसगुणो गुरू होई ॥ १ ॥ पडिवो ते अस्सी जुगप्पहा
१ वर्णधर्मधर्म विरोधिभिर्गुणादितस्तद्विभाग इति वादिभिर्वा मननीयोयमागमः.
For Private & Personal Use Only
www.jainelibrary.org