SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ॥२४॥ आचार- वर्जनम् । कषायविषयत्यागं विध्याः शोकभागपि ॥ ७॥ प्रायः क्षत्रियवैश्यानां न भोक्तव्यं गृहे त्वया।। विभागः१ दिनकरः ब्राह्मणानामाईतानां भोजनं युज्यते गृहे ॥ ८॥ खज्ञातेरपि मिथ्यात्ववासितस्य विलासिनः। न भोक्तव्यं उपनयन, गृहे प्रायः खयंपाकेन भोजनम् ॥९॥ आमान्नमपि नीचानां न ग्राह्यं दानमञ्जसा । भ्रमता नगरे प्रायः कायस्पशीन केनचित् ॥१०॥ उपवीतं वर्णमुद्रां नान्तरीयमपि त्यजेः । कारणान्तरमुत्सृज्य नोष्णीष शिरसि व्यधाः ॥११॥ धर्मोपदेशः प्रायेण दातव्यः सर्वदेहिनाम् । व्रतारोपं परित्यज्य संस्कारान् गृहमेधिनाम् । ॥१२॥ निर्ग्रन्धगुवनुज्ञातः कुर्यात्पञ्चदशापि हि । शान्तिकं पौष्टिकं चैव प्रतिष्ठामहदादिषु ॥ १३ ॥ निम्र-18 दिन्थानुज्ञया कुर्यात्प्रत्याख्यानं च कारयेः । धार्य च दृढसम्यक्त्वं मिथ्याशास्त्रं विवर्जयेत् ॥ १४ ॥ नानार्यदेशे गन्तव्यं त्रिशुद्ध्या शौचमाचरेः । पालनीयस्त्वया वत्स बतादेशो भवावधिः॥ १५॥” इति ब्राह्मणव्रतादेशः ।। अथ क्षत्रियव्रतादेशः । “परमेष्ठिमहामन्त्रः स्मरणीयो निरन्तरम् । शकस्तवैस्त्रिकालं च वन्दनीया जिनेश्वराः &॥१॥ मद्यं मांसं मधु तथा सन्धानोदुंबरादि च । निशि भोजनमेतानि वर्जयेदतियत्नतः॥२॥ दुष्टनिग्रह युद्धादि वर्जयित्वा च योगिनाम् । न विधेयः स्थूलमृषावादस्त्यक्तव्य एव च ॥३॥ परनारी परधनं त्यजेदन्यविकत्थनम् । युक्त्या साधूपासनं च द्वादशव्रतपालनम् ॥ ४ ॥ विक्रमस्याविरोधेन विधेयं जिनपूजनम् ॥२४॥ धारणं च प्रयत्नेन सोपवीतान्तरीययोः ॥५॥ लिङ्गिनामन्यविप्राणामन्यदेवालयेष्वपि । प्रणामदानपूजादि विधेयं व्यवहारतः॥ ६॥ सांसारिकं सर्वकर्म धर्मकर्मापि कारयेत् । जैनविप्रैश्च निर्ग्रन्थैदृढसम्यक्त्ववासनः For Private & Personal Use Only W Jan Education inte ww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy