SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आधारदिनकरः ॥ २३ ॥ Jain Education Interna तादीनि तद्देहे तथैव संस्थाप्य तदुपरि कृष्णसाराजिनं वा वृक्षवल्कलं वस्त्रं वा परिधापयेत् । तत्करे च पालाशदण्डं दद्यात् । इति मन्त्रं च पठेत् - "ॐ अहं ब्रह्मचार्यसि, ब्रह्मचारिवेषोऽसि, अवधि ब्रह्मचर्योऽसि, धृतब्रह्मचर्योऽसि, धृता जिनदण्डोऽसि, बुद्धोऽसि, प्रबुद्धोऽसि धृतसम्यक्त्वोऽसि, दृढसम्यक्त्वोऽसि, पुमानसि, सर्वपूज्योऽसि, तदवधि ब्रह्मव्रतं आगुरुनिर्देशं धारयेः अहं ॐ ।” इति पठित्वा व्याघ्रचर्ममये आसने कल्पितकाष्ठमयासने वा उपनीतं निवेशयेत् । तस्य दक्षिणकरप्रदेशिन्यां सदर्भा काञ्चनमयीं पञ्चगुञ्जामितषोड| शमाषकतुलितां पवित्रिकां मुद्रिकां परिधापयेत् । पचित्रिकापरिधापनमन्त्रो यथा - "पवित्रं दुर्लभं लोके सुरासुरनृवल्लभम् । सुवर्ण हन्ति पापानि मालिन्यं च न संशयः ॥ १ ॥” तत उपनीतश्चतुर्दिक्षु मुखेन पञ्चपरमेष्टिमत्रं पठन् गन्धपुष्पाक्षतधूपदीप नैवेद्यैर्जिनप्रतिमां पूजयेत् । ततो जिनप्रतिमां प्रदक्षिणीकृत्य गुरुं च प्रदक्षिणीकृत्य 'नमोऽस्तु २' भणन् योजितकर इति वदति, "भगवन् ! उपनीतोऽहं” गुरुः कथयति, "सुष्ट्रपनीतो भव" पुनरुपनीतो 'नमोऽस्तु २' वदन् प्रणम्य वदति, "कृतो मे व्रतबन्धः" गुरुः कथयति, "सुकृतोsस्तु" पुनः 'नमोsस्तु' २ इति वदन् प्रणम्य शिष्यः कथयति, “भगवन् जातो मे व्रतबन्धः" गुरुः कथयति, 'सुजातोsस्तु' पुनर्नमस्कृत्य शिष्यः कथयति, “जातोऽहं ब्राह्मणः क्षत्रियो वा वैश्यो वा ?” गुरुः ॥ २३ ॥ कथयति, "दृढव्रतो भव, दृढसम्यक्त्वो भव ।" पुनः शिष्यो नमस्कृत्य कथयति, “भगवन्, यदि त्वया ब्राह्मणोऽहं तदादिश कृत्यं ।” गुरुः कथयति, "अर्हद्विरा आदिशामि ।" पुनर्नमस्कृत्य शिष्यः कथयति, "ब्रह्मन्, For Private & Personal Use Only विभागः १ उपनयन. www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy