SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ १८ ॥ Jain Education Interr धर्मागारं नयेत् । ततः पूर्वरीत्या मण्डली पूजागुरुवन्दनावासक्षेपादि । ततः साधुभ्यो वस्त्रान्नपात्रदानं षड्विकृतिदानं च । गृह्यगुरवे वस्त्रवर्णदानं । नापिताय वस्त्रकङ्कणदानं - " पौष्टिकस्योपकरणं मातॄणां पूजनस्य च। मुण्डने योजनीयं स्यान्नैवेद्यं च कुलोचितम् ॥ १ ॥ इत्याचार्य श्रीवर्द्धमानसूरिकृते आचारदिनकरे गृहिधर्म पूर्वायने चूडाकरणसंस्कारकीर्त्तनो नाम एकादश उदयः ॥ ११ ॥ द्वादश उदयः । अथोपनयनसंस्कारविधिः ॥ १२ ॥ तत्रोपनयनं नाम मनुष्याणां वर्णक्रमप्रवेशाय संस्कारो हि वेषमुद्रोद्वहनेन स्वखगुरूपदिष्टे धर्ममार्गे निवेशयति । यदुक्तमागमे - “धम्मायारे चरिए वेसो सवत्थकारणं पढमं । संजमलज्जाहेऊ सढाणं तह य साहूणं ॥ १ ॥” तथा च श्रीधर्मदासगणिपादैरुपदेश मालायामप्युक्तं । यथा - "धम्मं रक्खड़ वेसो संकह वेसेण दिक्खिओम अहं । उम्मग्गे जेण पडतं रक्खइ राआ जणवउच्व ॥ १ ॥” तथा च इक्ष्वाकुवंश्यनारदवंश्य प्राच्योदीच्यवंश्यानां जैनब्राह्मणानामुपनयनं जिनोपवीतधारणं च । तथा क्षत्रियवंशोत्पन्नानां जिनचक्रिबलदेववासुदेवानां श्रेयांसदशार्णभद्रप्रभृतीनां नृपाणामपि हरिवंशेक्ष्वाकुवंशविद्याधरवंशसंभवानामप्युप For Private & Personal Use Only विभागः १ उपनयन, ॥ १८ ॥ www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy