SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ १३५ ॥ Jain Education Inter भावनाम् । व्याख्यान्ति मुनयः प्राय इति द्वादश भावनाः ॥ ६ ॥ सिद्धान्तटीकाचूर्ण्यादिप्रसङ्गादपरं पुनः । प्रमाणशास्त्रं जैनं च व्याख्येयं ध्येयमेव च ॥ ७ ॥ अन्यानि पठनीयानि तर्कसंवादहेतवे । तत्त्वं धर्मानुषंगत्वं व्याख्येयं परमार्हतम् ॥ ८ ॥ निरुक्तिज्र्ज्योतिषं छन्दः शिक्षा व्याकरणं तथा । कल्पः षडङ्ग्यध्येतव्या शास्त्र| व्याख्यानहेतवे ॥ ९ वेदाः पुराणानि तथा स्मृतयः शिल्पभाषितम् । एतानि नाध्येतव्यानि व्याख्येयानि न कुत्रचित् ॥ १० ॥ वैद्यकं कामशास्त्रं च दण्डनीतिं च जीविकाम् । मीमांसामिति शास्त्राणि न पठन्ति मुनी|श्वराः ॥ ११ ॥ वर्षाकाले विशेषेण साधुर्धर्मकथां वदेत् । यतो हि धर्मकालस्सोपरकार्यविवर्जितः ॥ १२ ॥ तथा पर्युषणासन्ने काले कल्पस्य वाचनाम् । कुर्वन्ति मुनयः शान्ताः सर्वथैव दिनत्रयम् ॥ १३ ॥ तत्र श्राद्धप्रार्थनायां विधेयो वाचनाक्रमः । यत्तत्र ते विदधति सङ्घार्चनमहोत्सवम् ॥ १४ ॥ अथवा सर्वशास्त्राणि पठनीयानि साधुभिः । व्याख्यानं चरणं चैव विधेयं परमागमे ॥ १५ ॥ यत उक्तमागमे - सव्वं सिक्खियवं न समायरियच्वम् ॥ इत्याचार्य श्रीवर्द्धमानसूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे ऋतुचर्या व्याख्यानकीर्तनो नाम एकत्रिंशत्तम उदयः ॥ ३१ ॥ द्वात्रिंशत्तम उदयः । अथ मुनीनामन्तसंलेखनाविधिः । सा च नीरोगाणां कर्मक्षयमोक्षकाङ्क्षिणामप्राप्तेपि मरणकाले द्वादशवर्षा भवति । सायथा - "चत्तारि For Private & Personal Use Only विभागः १ अंतसंलेख नाविधिः ॥ १३५ ॥ www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy