________________
आचार
प्रवचनाद्विज्ञेयम् । अथ साधुः साध्वी च रजनीपश्चिमयामे परमेष्ठिमन्त्रं पठन् संस्तारकादुत्तिष्ठेत् , ततो दण्ड-16 विभागः१ दिनकरः पोंछनेन प्रतिलिख्य पादपदानि परिमार्जयन् प्रश्रवणमात्रकं यावद्गच्छेत् । ततः प्रश्रवणमात्रकं दण्डपोंछनेन| अहोरात्र
प्रतिलिख्य शनैर्मूत्रमुत्सृजेत्, ततश्च तयैव युक्त्या वसतेबहिर्गत्वा सायं प्रमार्जितस्थंडिले परिष्ठापयेत्,चर्याविधिः ॥१२७॥
ततश्च तथैव संस्तारकपार्श्वमागच्छेत्, प्रतिलिख्य संस्तारकं संवृणुयात् । ततश्च काष्ठासनं पादपोंछनं वा सायं प्रतिलेखितं निवेश्य तदुपरीर्यापथिकी प्रतिक्रामेत, शक्रस्तवं च पठेत् दाखलरात्रिप्रायश्चित्तकायोत्सर्ग च कुर्यात् । तत "इच्छामि पडिकमिउं पगाम सिजाए. यावद्यो मे राईओ अइयारो कओ तस्स मिच्छामि दुक्कडं" इति पर्यन्तं कायोत्सर्गपारणचतुर्विशतिस्तवपाठानन्तरं पठेत, ततः स्वाध्यायपाठेन नमस्कारजापेन शनैः खरेण परेषां विद्याभ्यासं कारयन् निशामतिवाहयेत्, ततश्च घटिकाशेषायां रात्रौ रात्रिप्रतिक्रमणं कुर्यात् । प्रतिक्रमणकायोत्सर्गप्रत्याख्यानादिविधिरावश्यकोदयादवसेयः । ततः अरुणोदये श्रीमदिन्द्रभूतिगणधरस्तुतिपाठपूर्व प्रतिलेखनामङ्गप्रतिलेखनामुपधिप्रतिलेखनां वसतिप्रतिलेखनां च कुर्यात्, ततः खाध्यायं च कुर्यात् , ततो धर्मव्याख्यानं शिष्यपाठनं साध्वीपाठनं स्वयं पठनं श्राद्धश्राद्धीपाठनं धर्मशास्त्रलिखनं च कुर्यात् । ततः पादोने प्रहरे जाते पौरषीप्रतिलेखनां कर्यात. ततश्च तृप्तिकरणं गृहीत्वा प्राशुकजल
A
.. मादाय जिनायतनेषु चतुर्भिः स्तुतिभिश्चैत्यवन्दनं कुर्यात, ततश्च बहि मौ मलमूत्रोत्सर्ग विधाय पुनर्वसति
॥१२७, मागच्छेत् , तत्र पुनरर्यापथिकी प्रतिक्रामेत् । तथा यत उक्तम्-"सर्वत्र गमनस्यान्ते त्यागे च मलमूत्रयोः ।
Jan Education Interna
For Private & Personal use only
r
w.jainelibrary.org