SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ . ---- लप्रकटीकरणं, संस्तारकाण: सूक्ष्मस्थूलयोरिति विभाषा रङ्गुलयुतो हस्तः ॥ अ -test- 4 परिधेर्द्विगुणः, बृहत्कुक्षीणां मुनीनां कृते कटिपरिधेश्चतुर्गुणः सूक्ष्मस्थूलयोरिति विभाषा, चोलपट्टपरिधानं तु | नाभिजान्वोरधउपरि चतुरङ्गुलप्रकटीकरणं, संस्तारकोत्तरच्छदयोर्दीर्घत्वं सार्धहस्तद्वयं, द्वयोरपि पृथुत्वं चतुरङ्गुलयुतो हस्तः ॥ अथ साधूपकरणानामुपयोगित्वं यथा-वस्तुन आदाननिक्षेपयोः स्थानोपवेशनशयनेषु पूर्व प्रमार्जनार्थ च रजोहरणमिति रजोहरणोपयोगः । मुखवस्त्रिका तु निरन्तरसूक्ष्मजीवनिवारणार्थ त्रसरेणुप्रमार्जनार्थ भवति, तयाच्छादितवदनस्य नासामुखमारुतेन न हन्यन्ते सूक्ष्मजीवाः, प्रमार्जनकाले च मुनिस्तया कर्णबद्धयावलम्बनेन नासां मुखं च रुणद्धि, इति मुखवस्त्रिकोपयोगः । पात्रग्रहणं तु भूमिपदृवस्त्रादिषु जीवरक्षार्थ भोजनसंलीनतार्थ च, ये गुणाः संभोगे ते गुणाः पात्रग्रहणेपि । संभोगे यथा एकप्रणिधानैकसंस्थानतल्लीनता भवति, तथैव पात्रभोजनेनान्नपानादिविकिरणमेकचित्ततापरोपेक्षाभावश्च भवति, इति पानोपयोगः । शेषाणां पात्रनिर्योगाणां ग्रहणं पात्ररक्षार्थमेव कल्पत्रयग्रहणं च वनज्वलनजलवायुनिवारणार्थ शुक्लधर्मध्यानार्थ च समाधिनिमित्तग्लानानां मरणे आच्छादनार्थ च, इति कल्पोपयोगः। चोलपट्टग्रहणं तु पुरुषवेदोदयोद्भवरक्षार्थ दीर्घलिङ्गानां लिङ्गरोगिणां लज्जानिवारणार्थ च, इति चोलपट्टोपयोगः। मात्रकोपयोगः पूर्वमेवोक्तः, इह कमठशब्देन केचिच्चोलप, केचित्संस्तारकोत्तरपटमामनन्ति । पात्रस्थापनं केचिद्भिक्षाटनं झोलिकां केचिद्धासत्कंप्रतिष्ठानं कथयन्ति इत्युपकरणोपयोगाः। अथ प्रत्येकबुद्धोपकरणानि-प्रथमं तेषां व्याख्यानत उपकरणानां तत्रैके स्वयंवुद्धाः एके प्रत्येकबुद्धाः, स्वयंवुद्धा द्विविधा एकेहन्तः परे च कैश्चिदृष्टान्तैः % A % % Jain Education Inter For Private & Personal Use Only W C95% w w.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy