________________
वर्द्धमानविद्यापटं च पूजार्थ ददाति, नामकरणं च अमुकश्रीरिति श्रीवर्णान्तं करोति । ततः आर्यचन्दनामगावतीसदृशी भवेति आशास्य अनुशास्तिं ददाति । अनुशास्तिर्यथा-"तिनीव्रतदानं च व्रतानुज्ञा च गहिनाम् । साधुसाध्व्यनुशास्तिस्तु श्राडीवन्दनदापनम् ॥१॥ इत्यादि कर्म वत्से त्वं कुर्याः काले यथाविधि । तिनां व्रतदानं च प्रतिष्ठां च विवर्जयेः॥२॥” इति गुरुभिरनुशासिता महत्तरा वन्दनकं दत्त्वा निरुद्धमाचाम्लं गुरुसकाशाद् गृह्णाति । साध्वीश्रावकश्राविकाजनस्तां वन्दते, श्राविकाश्च द्वादशावर्तिवन्दनं ददति । महत्तरा धर्मव्याख्यानं करोति । अन्यगच्छेषु सर्वेषु पूर्वावस्थादीक्षिता वतिन्यो महत्तरापदमानवन्ति । अस्मद्गच्छे तु कौमार्यदीक्षितैव महत्तरा भवति । महत्तरा तिन्याः प्रवर्तिनीपदं ददाति न महत्तरापदं । प्रवर्तिनीपदे स्कन्दकम्बलिकासनवर्द्धमानविद्यापटदानवर्जितोऽयमेव विधिः पूर्वोदये कथितः ॥ इत्याचार्यश्रीवर्द्धमानमूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे महत्तरापदस्थापनकीर्तनो नाम एकोनत्रिंशत्तम| उदयः॥२९॥
त्रिंशत्तम उदयः।
.. अथ अहोरात्रचर्याविधिः । अथाहोरात्रचर्या वतिनो अतिन्याः, सा च वतिनां व्रतिनीनां चाहोरात्रिकी चर्या न धर्मोपकरणैर्विना।
SAIRA-
आ.दि.२१
Jain Education Inter
For Private & Personal Use Only
K
aw.jainelibrary.org