SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ १ ॥ Jain Education Inte सर्वर्द्धयः संज्ञानं कीर्त्तिर्यस्याः प्रसादतः । प्राप्यते क्षणमात्रेण तामम्बां प्रणमाम्यहम् ॥ ६ ॥ विद्वत्पत्सु गर्जन्ति मादृशा यत्प्रसादतः । नमोऽस्तु गुरुपादेभ्यस्तेभ्य एव प्रतिक्षणम् ॥ ७ ॥ उपाय कोटिभिर्नैव प्राप्यं यत्तत्त्वमुत्तमम् । सुप्राप्यं यत्प्रसादात्तत् तस्मै श्रीगुरवे नमः ॥ ८ ॥ सत्यज्ञानात्सुखालोक्यः पन्थाः कैवल्यकारणम् । तच्चाचारवतां नृणामुन्मीलति विशेषतः ॥ ९ ॥ गर्भवासा ज्ञातात्मा वृषभः परमः पुमान् । प्रविवेश यदाचारं तत्स प्रामाण्यमञ्चति ॥ १० ॥ इह हि केचिद्दर्शनमोहान्धधिय आर्हत १ सौगत २ वैशेषिक ३ नैयायिक ४ साङ्ख्य ५ चार्वाका ६ स्तत्त्वालोकना (मार्ग) नुसारिण एव अदृष्टतत्परमार्थाः सहृदयोपात्तप्रमातृप्रमेयप्रमाणप्रभावा आचारमेव तिर - स्कुर्वन्ति । न तेषां वचः सद्भिः प्रमाणपथमुन्नेयं । यतः भगवानर्हन्नपि विदितसमस्तपरमार्थ आगर्भाद्राज्या|भिषेकपर्यन्तसंस्कारान् खदेहेऽप्याविश्वकार । तथा च देशविरतिरूपे गृहिधर्मे प्रतिमोद्वहनादिसम्यक्त्वारोपणरूपमाचारमाचीर्णवान् । तथा निमेषमात्रशुक्लध्यानप्राप्येऽपि केवले यतिमुद्रातपश्चरणादि दीर्घकालं कलयति स्म । तथा च समुत्पन्ने केवले चिदानन्दरूपोऽपि त्यक्तपरापेक्षः समवसरणरचनाधर्मदेशनाविहारगणधरस्थापन संशयव्यवच्छेदादि विधत्ते स्म । तथा च तस्मिन्नपि भगवति परिनिर्वृते बिडौजःप्रभृतयो वृन्दारकाः प्राणरहितस्यापि कर्त्तृकर्मव्यवच्छिन्नस्य तच्छरीरस्य संस्कारस्तूपप्रभृत्याचरणमाचरन्ति । तद् ध्रुवमार्हत१ 'शुभं' इति कचित्पाठः । सुखमिति पाठस्तु संगतः । २ 'ज्ञानात्मा' इत्यपि । For Private & Personal Use Only विभागः १ प्र. अरु. ॥ १ ॥ www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy