________________
आ. दि. १
Jain Education Inter
श्रीजिनाय नमः ।
श्रीवर्द्धमानसूरिविरचितः । आचारदिनकरः ।
प्रथमोऽरुणोदयः ।
तत्त्वज्ञानमयोलोके आचारं यः प्रणीतवान् । केनापि हेतुना तस्मै नम आद्याय योगिने ॥ १ ॥ आत्मान्तर्द्धानहेतोर्वा कारुण्यादथ देहिनाम् । य आचारं स्वयं चक्रे तं वन्देऽर्हन्तमादिमम् ॥ २ ॥ तत्प्रसादात्सुखालोक्ये पथि तत्त्वोपयोगिनि । यो लोकाचारमाचख्यौ तस्मै सर्वात्मने नमः ॥ ३ ॥ अनादितत्त्वज्ञातापि खस्य मोक्षप्रदोऽपि च । स्वयं चचाराचारं यो नमस्तस्मै स्वयंभुवे ॥ ४ ॥ यस्याः श्रुतेः परा वाणी पूजनात्परमाः श्रियः । तत्त्वालोकः परं ध्यानात्तस्या अर्हगिरे नमः ॥ ५ ॥
For Private & Personal Use Only
www.jainelibrary.org