________________
एकभक्तं ततः श्रेण्या आचाम्लत्रिकं पर्यन्ते त्रयाणामप्यध्ययनानां समकालमेका वाचना । यथा - "अरिहं तचेइयाणं करेमि काउस्सग्गं वंदणवत्तिआए पूअणवत्तिआए सकारवत्तिआए सम्माणवत्तिआए बोहिलाभ★ वत्तिआए निरुवसग्गवत्तिआए १ सद्धामोहाए० जाव ठामि काउस्सग्गं २ अन्नत्थ उससिएणं जाव वो॥ ५४ ॥ तु सिरामि ३ इत्येकैव वाचना । इति चैत्यस्तवोपधानं । अथ चतुर्विंशतिस्तवोपधानं । नन्दिद्वयं पूर्ववत् । प्रथमदिने एकभक्तं द्वितीये उपवासः तृतीये एकभक्तं चतुर्थे उपवासः पञ्चमे एकभक्तं षष्ठे उपवासः सप्तमे एकभक्तं इत्यष्टमतपः अन्ते प्रथमगाथात्रयस्य वाचना "लोगस्स० यावत्केवली १” इत्येका वाचना । ततश्च श्रेण्यैव द्वादशाचाम्लाः तदन्ते गाथात्रयस्य वाचना - "उसभमंजियं च वंदे० जाव वद्धमाणं च" इति द्वितीयवाचना २ ततस्तच्छ्रेण्यैव त्रयोदशाचाम्लाः तदंते " एवमए अभिच्छुया० यावत्सिद्धा सिद्धिं मम दिसंतु” इति तृतीया वाचना ३ इति चतुर्विंशतिस्तवोपधानं । अथ श्रुतस्तवोपधानं । नन्दिद्वयं पूर्ववत् । प्रथमे दिने एकभक्तं द्वितीये उपवासः तृतीये एकभक्तं तच्छ्रेण्यैव पञ्चाचाम्लाः तदन्ते गाथाद्वयस्य वृत्तद्वयस्यापि समकालं वाचना । तत्र पञ्चाध्ययनानि अध्ययनद्वयं गाथाद्वयेन तृतीयाध्ययनं वसन्ततिलकावृत्तेन चतुर्थाध्ययनं शार्दूलविक्रीडितवृतपूर्वार्द्धन पञ्चमाध्ययनं तदुत्तरार्द्धन इति श्रुतस्तवोपधानं । इति षडुपधानानि । तथा सिद्धस्तवे प्रथमगाथा - त्रयस्योपधानं विनैव वाचना शेषागाथा आधुनिक्य इत्युपधानवाचनास्थितिः । अत्र विस्तरो निशीथसिद्धान्तोद्धृतोपधानप्रकरणात् ज्ञेयः । यथा - "पंचनमुक्कारे किल दुवासतवो उ होइ उवहाणं । अट्ठयआयामाई एगं तह अहम अंते ॥ १ ॥ एवं चिय नीसेसं इरियावहि आह होइ उवहाणं । सक्कच्छयंमि अट्टममेगं बत्तीस
आचारदिनकरः
Jain Education Inter
For Private & Personal Use Only
विभागः १ व्रतारोप.
।। ५४ ।।
www.jainelibrary.org