________________
सितांशुकांते नयनाभिरामां मूर्ति समाराध्य भवेन् मनुष्यः॥ सितांशुकांते नयनाभिरामांधकारसूर्य क्षितिपावतंसः ॥१०॥ येन स्थितं त्वाममु सर्वतीर्थैः सभाजितामानतमस्तकेन ॥ दुर्वादिनां निर्दलितं नरेंद्र-सभाजितामानतमस्तकेन ॥ ११ ॥ सर्वज्ञवक्रवरतामरसांकलीना मालीघ्नती प्रयणमंथरया दशैव ।। सर्वज्ञवक्रवरतामसमंकलीना प्राणीतु विश्रुतयशा श्रुतदेवता नः ॥ १२॥ कृप्तस्तुतिनिविडभक्तिजडपृक्तैर्गुफैगिरामितिगिरामधिदेवता सा ॥ बालोऽनुकंप्य इतिरोपयतु प्रसादस्मेरां दृशं मयि जिनप्रभसूरिवा ॥ २३ ॥ આરાત્રિક (આરતી) ઉતારવી. અને પછી નીચે પ્રમાણે ગતમાષ્ટક બેલી દાન આપવું श्रीइंद्रभूतिं वसुभूतिपुत्रं । पृथ्वीभवं गौतमगोत्ररत्नं ॥ स्तुवंति देवासुरमानवेंद्रा । स गौतमो यच्छतु वांछितं मे ॥१॥ श्री वर्द्धमानात् त्रिपदीमवाप्य । मुहुर्त्तमात्रेण कृतानि येन ॥ अंगानि पूर्वानि चतुर्दशापि । स गौतमो यच्छतु वांछितं मे ॥२॥ श्री वीर नाथेन पुरा प्रणीतं । मंत्रं महानंदसुखाय यस्य ॥ ध्यायंत्यमी सूरीवराः समग्रा । स गौतमो यच्छतु वांछितं मे ॥३॥ यस्याभिधानं मुनयोऽपि सर्वे । गृह्यन्ति भिक्षा भ्रमणस्य काले ॥ मिष्टानपानांवरपूर्णकामाः स गौतमो यच्छतु वांछितं मे ॥ ४॥ अष्टापदाद्रौ गगने स्वशक्त्या । ययौ जिनानां पदवंदनाय ॥ निशम्य तिर्थातिशय सुरेभ्यः । स गौतमो यच्छतु वांछितं मे ॥ ५ ॥ त्रिपंचसंख्याशततापसानां । तपाकृशानामपुनर्भवाय ॥ अक्षीणलब्ध्या परमानदाता । स गौतमो यच्छतु वांछितं मे ॥६॥ सदक्षिणं भोजनमेव देयं । साधर्मिक संघसपर्ययेति ॥ कैवल्यवस्त्रं प्रददौ मुनीनां । स गौतमो यच्छतु वांछितं मे ॥ ७ ॥ शिवं गते भर्तरि वीरनाथे । युगप्रधानत्वमिहैव मत्वा । पठाभिषेको विदधे सुरेंद्रैः । स गौतमो यच्छतु वांछितं मे ॥ ८॥ त्रैलोक्यबीजं परमेष्ठिजं सज्ञानबीजं जिनराजबीजं ॥ यन्नाम चोक्तं विदधाति सिद्धिं । स गौतमो यच्छतु वांछितं मे ॥९॥ श्री गौतमस्याष्टकमादरेण । प्रबोधकाले मुनिपुंगवा ये ॥ पठति ते भूरिपदै सदैवानंदं लभंते सुतरां क्रमेण ॥ १०॥
॥ इति श्री गौतमाष्टकं संपूर्णम् ॥