________________
N
कानिचिन्मौक्तिकानि (पूज्यपादाना प्रति प्रेषितेभ्य पत्रेभ्य उद्धृतानि संस्कृतानि च ।।)
.. -मोक्षरतिविजयः सुदृष्टि हसहर्षदं, तव प्रभो ! पदाम्बुजम् । नमामि कुर्वदुर्वशं, सुवासित्तां सुशोभिताम् ।। भवत्कृपादशाऽऽलोक,-मानो मार्गमिहागमम् । यथा तथैव यास्यामि, स्वामिन् ! मोक्षमपि ध्रुवम् ।। विस्तीर्णश्रमणगण-भावारोग्यैकहेतवे । स्पृहयामि सदा युष्मद्,-देहारोग्याय तारक ! ।। युष्मत्स्मृतिसुधापान,-पीनानां नाकिनामिव । अस्त्येव नः शरीरस्य, स्वस्थता सर्वदा प्रभो ! ॥ निवेदिताऽईते पृच्छा,-गभिता या स्तुतिः प्रभो ! । निरुत्तराऽभवत् तुभ्यं, शृणु निवेदयामि ताम् ॥ "तव प्रेष्योऽस्मि दासोऽस्मि, सेवकोऽस्भ्यस्मि किङ्करः । ओमिति प्रतिपद्यस्व, नाथ ! नातः परं ब्रुवे" ॥ महानन्दप्रदं स्वामिन् !, दर्शनं तव कुर्वते ।। अवतारणतां यामि, नयनाय दिवानिशम् ॥ वत्सलौ भवतां हस्तौ, याच्छिरः स्पृशतस्तराम् । कथं परमपरम, आनन्दस्तस्य वर्ण्यताम् ।। अहं पुनः-- "गुर्वाज्ञाकरणं सर्व,-गुणेभ्योऽप्यतिरिच्यते ।" इदं हैमं वचः स्मृत्वा, किमप्याश्वासनं लभे ॥ अवश्यं प्रेषणीयाऽऽज्ञा, ममेति प्रार्थना प्रभो! कवलमुपचारोऽस्नि, 'शिष्यो'ऽस्मि भवतो यतः ॥ निर्विघ्नमागताः पुण्यां, पुण्याः स्मः कृपया तत्र ।
लोकाग्रं नहि दूरं त्वत्, कृपा सहचरी यदि ।। जाएंगी कि आपने कभी-किसी घटना-प्रसंग से स्वयं को विचलित नहीं होने 3 दिया. सचमुच निडरता आपका मूलमन्त्र था..
आपके हाथों हुई जिनशासन की प्रभावना की हार्दिक अनुमोदना कर वीतराग के पथ के प्रति रही आपकी आस्था को नमन करता हूँ. .
DRA
DOHOUT