SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रघुवत 'भुस्तिवा' ૧૦૧ न च चरमत्वव्याप्यविरुद्धभेदेन गोवधजन्यतावच्छेदकजाते नात्वान्न सांकर्यावकाश इति वाच्यम् । वैपरिबरी)त्येऽपि साकर्यवारणसंभवात् । ननु गोवधजन्यतावच्छेदकजातिव्याप्य विरुद्धभेदेन चरमत्वस्य नानात्वस्वीकारे तुल्ययुक्त्या ब्रह्मवधजन्यतावच्छेदकजातिव्याप्यविरुद्धभेदेनापि चरमत्वस्य नानात्वं स्वीकार्यम् । तथाचैका गोवधजन्यतावच्छे दिका जातिस्तव्याप्यविरुद्धभे[दे]न चरमत्वं द्विविधम् । एवमेका ब्रह्मवधजन्यतावच्छेदिका जातिस्तव्याप्यविरुद्धभेदेनापि चरमत्वं द्विविधमिति षड्जातयः । गोवधजन्यतावच्छेदकजाते नात्वे तु चरमत्वस्य व्याप्यविरू(रु)द्धभेदेन गोवधजन्यतावच्छेदिका जातिर्द्विविधा । एवं ब्रह्मवधजन्यतावच्छेदकजातेरपि तद्व्याप्यविरुद्धभेदेन दैविध्यम् । एकं च चरमत्वमिति पञ्चजातय इति लाघवात् गोवधादिजन्यतावच्छेदकजातेरेव नानात्वस्वीकार उचित इति चेन्न । चरमत्वस्य नानात्वकल्पे[कल्पने गोवधजन्यतावच्छेदकजातिव्याप्यचरमत्वस्यैव ब्रह्मवधजन्यतावच्छेदकजातिविरुद्धत्वम् । एवं ब्रह्मवधजन्यतावच्छेदकजातिव्याप्यचरमत्वस्य गोवधजन्यतावच्छेदकजातिविरुद्धत्वमिति चरमत्वस्य द्विविधमात्रतया जातिचतुष्टयकल्पनेन विपरीतलाघवसंभवात् । एवं चरमत्वस्य गोवधजन्यतावच्छेदकजातिव्याप्यविरुद्धभेदेन नानात्वे कार्यकारणभावलाघवमपि संभवति । तथाहि एका विजातीयदुःखत्वावच्छिन्नं प्रति गोवधत्वेन कारणता । अपरा च विजातीयदुःखत्वावछिन्नं प्रति ब्रह्मवधत्वेन । चरमत्ववैविध्येन च मुक्तिं प्रति तत्त्वज्ञानस्यापि कार्यकारणभावद्वयमिति कार्यकारणभावचतुष्टयकल्पनम् । गोवधादिजन्यतावच्छेदकजाते नात्वे तु गोवधजन्यतावच्छेदकजातिद्वैविध्येन विजातीयदुःखं प्रति गोवधस्य कारणताद्वयम् । एवं ब्रह्मवधजन्यतावच्छेदकजातिद्वैविध्येन विजातीयदुःख प्रति ब्रह्मवधस्यापि कारणताद्वयम् । चरमत्वस्यैक्येनैक(कां) मुक्तिं प्रति तत्त्वज्ञानस्य हेतुत्वमिति पञ्चकार्यकारणभावकल्पनम् । तथा च पञ्चकार्यकारणभावापेक्षया कार्यकारणभावचतुष्टयकल्पने लाघवमतिस्फुटमित्यतो चरमत्वस्य नानात्वकल्पो बलीयानिति । ननु भवतु तथापि चरमदुःखध्वंसस्य मुक्तित्ववादिमते को दोष इति चेन्न । स्वसामानाधिकरण्यकालिकविशेषणत्वोभयसंबन्धेन दुःखवान् यस्तद्भिन्नो यो दुःखध्वंसस्तस्य मुक्तित्वादिमतापेक्षया चरमदुःखध्वंसस्य मुक्तित्वमते उपदर्शितानन्तकार्यकारणभावकल्पने नोपदर्शितानन्तजातिकल्पनेन च महागौरवग्रासदोषसंभवात् । तन्मतेऽपि स्वत्वाननुगम इति तु न शंकास्पदमपि तत्र स्वत्वस्य परिचायकत्वेनानिवेशादिति । ननु दुःखवद्भिन्नदुःखध्वसस्य मुक्तित्वे तदवच्छिन्नं प्रति तत्त्वज्ञानस्य हेतुत्वानुपपत्तिः । विभुसमवेतयोग्यविशेषगुणनाशत्वावछिन्नहेतुत्वेनावश्य(श्य) क्लृप्तेन स्वोत्तरोत्पन्नविशेषगुणेनान्यथासिद्धत्वात् । न च तादृशकार्यकारणभावसत्वेऽपि श्रुतिसिद्धमुक्तितत्त्वज्ञानकार्यकारणभाव: केन वारणीय इति वाच्यम् । बाधितमर्थ वेदोऽपि न बोधयतीति न्यायेन श्रुत्या तथाविधकार्यकारणभावप्रतिपादनासंभवात् । तर्हि का गतिर्मुक्तितत्त्वज्ञानकार्यकारणभावबोधकवेदस्येति चेदात्मानमेवोपालंभस्व यतो दुःखवद्भिन्नदुःखध्वंसत्वस्य मुक्तित्वरूपत्वमङ्गीक्रियते भवतेति चेन्मैवम् । उपदर्शितानुपपत्तिभिया दुःखवद्भिन्नदुःखध्वंसत्व मुक्तित्वमिति नोच्यते अपितु दुरितवदिन्नदुरितध्वंसत्वं तत्तत्र तु नोक्तानुपपत्तिः । दुरितस्य विभुसमवेतयोग्यविशेषगुणत्वाभावेन तदवच्छिन्ननाशहेतुस्वोत्तरोत्पन्नविशेषगुणेन दुरितवद्भिन्नदुरितनाशासंभवात् । एवं सति मुक्तितत्त्वज्ञानकार्यकारणभावबोधकवेदोऽपि न कुप्यत । तत्त्वज्ञान विना दुरितवद्धिन्नदुरितध्वसत्वावच्छिन्नस्य प्रकारान्तरेणोत्पादनासंभवात् । न चैवं सति आत्यन्तिकी दुःखनिवृत्तिर्मुक्तिरित्याचाीयमुक्तिलक्षणं विरुध्यतेति (विरुध्यत इति) For Private and Personal Use Only
SR No.536137
Book TitleSwadhyay 1998 Vol 35 Ank 01 02
Original Sutra AuthorN/A
AuthorRajendra I Nanavati
PublisherPrachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
Publication Year1998
Total Pages131
LanguageGujarati
ClassificationMagazine, India_Swadhyay, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy