SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ पुण्योदयप्रशस्तिः ।। पुण्यमूर्तिः पुण्यचेताः पुष्यधीः पुण्यबाङमनाः । पुण्यकर्मा पुण्यशर्मा श्रीपुण्यविजयो मुनिः ॥१॥ निसर्गवत्सलो धीरी विशालहृदयस्तथा । परोपकारप्रवणो नम्नसौभ्यस्वभावभाक् ॥२॥ उदात्तचिन्तनी दीपप्रज्ञो वायमस्तथा । निर्भीकः सत्यसामर्थ्यप्रभारसमरोदयः ॥३॥ जैन-बैदिक-बौद्धानां शास्त्रेषु मुविशारदः । सम्माननीयो विदुषां विद्यासंस्थेव जङ्गमा ॥४॥ यदीयो व्यवसायश्च मुख्यरूपेण तते । श्रेष्ठपद्धतितः प्राच्यशास्त्रागां परिशोधनम् ॥५॥ बहुप्राचीनशास्त्रादयभाण्डागाराबलोकनम् । कृत्वा श्रमेण योऽकार्षीत् तेषामुद्धारमुत्तमम् ॥६॥ महामेधाविना येन प्राचीना बहुगौरवाः । ग्रन्थाः सम्पादिताः सन्ति विवदानन्दकारिणः ॥७॥ विद्यासङ्गपरायणो मुनिपदालङ्कारभूतक्रियः श्रेष्ठाचारविचारपूतविकसवैदुष्यनिष्पादितम् । भव्यश्लोकमनल्यधाममहिमा बिभ्रन्महासात्विको जीयाद् विश्वजनाय पुण्यविजयः पुण्यप्रकाश दिशन ॥८॥ || पुण्यस्तवः ॥ अजातशत्रवे विश्वमित्राय स्नेहमूर्तये । सर्वेषां च हितं कर्तु तत्पराय निसर्गतः ॥१॥ महाविपश्चिते प्राच्यशास्त्रशोध-प्रकाशने । समर्पितस्वनिःशेषजीवनस्थामसम्पदे ॥२॥ चारित्रोद्योतदीप्राय निःस्पृहायाभवाय च । श्रीपुण्यविजयायास्तु नमः पुण्यविभूतये ॥३॥ माण्डल (वीरमगाम) वि. सं. २०२४, भाद्रपद -अमावास्या । मुनिन्यायविजयः (न्यायविशारदः, न्यायतीर्थः) For Private And Personal Use Only
SR No.531809
Book TitleAtmanand Prakash Pustak 071 Ank 03 04
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1973
Total Pages249
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy