________________
प्रशस्ति-संग्रह
(सम्पादक–के भुजबली शास्त्री)
(गतांक से आगे) अन्तिम भाग
श्रीमूलसंधे मुनिशीलतुंगे श्रीकौन्दकुन्दे वरसूरिवृन्दे । वंशे च देशीयगणे गुणाढ्ये मह्यामतुच्छे घनपुस्तगच्छे ॥४११॥
आसीदसीमापनसोगेपूर्वोऽवल्यम्बुराशिर्गुणरत्नराशिः। तस्मादभूश्चन्द्र इव व्रतीन्द्रः श्रीदेवकीर्तिर्जितमारमूर्तिः ॥४१२॥ सद्गोत्रजस्तदनुवृत्तरथाधिरूढः सच्छीलवाजिरखिलात्मसुखप्रवृत्तिः । दोषाकराक्रमणचारुकरप्रचारो हंसोऽप्यसौ ललितकीर्तिरभूदहसः ॥४१३॥ श्रीललितकोर्तियतिमहदुदयगिरेरभवदागममयूखः। कल्याणकीर्तिमुनिरविरखिलधरातलबोधनसमर्थः ॥४१४॥ केचित्काव्यकथाप्रथाकुशलिनः केचिश्च सिद्धान्तिनः। केचिद् व्याकरणप्रयोगनिपुणाः केचिन्नरास्तार्किकाः ॥ केचित्तीव्रतपःप्रभावकलिताः केचित्कवित्वश्रमाः। केचिद्वाचकचासुरीपरिचितास्ते तस्य शिष्या बभुः॥४१५॥ त्रिभुवनकलशोऽपि नेमिनाथः कलशमगादथ भैरवेन्द्रतो जिनेन्द्रः । तदुदयभुजि पाण्ड्यदेवनाम्नि ह्यवति चकार कलक्षितिं क्षितीशे ॥४१॥ अन्यदा ललितकीर्तिमुनीन्द्रः संयुतामलतपोधनयुक्तः । तत्क्षितीशकृतचैत्यनिवासं रक्षिताखिलगुणः प्रययौ सः ॥४१॥ एकस्मिन्दिवसे मुनिनाथो नाकफलां जिनपतिपदपूजाम् ।। श्रोतृजनेभ्यो विशदीकुर्वन् मातृवचो निचयात्स च दन्यौ ॥४१॥ अल्पं कथावतारं महदिदमखिलं सत्पुराणप्रसिद्धम् । काव्यं पूजाप्रभावं तदलघु गुरु तत् कार्यमल्पगम्यम् । तत्तत्संगृह्य विद्वत्परिषदुपनिषद्भूतवागर्थगुम्फम् सिद्ध निर्धतदोषं श्रुतजनवितरत्तत्वविज्ञानसौख्यम् ॥४१॥ एते सन्मुनिवृषभाः कवित्वभाजो वादीन्द्राः कति कति च प्रवाग्मिनोऽमी। अध्यात्मप्रसरण........................किञ्च एव संबभूवुः ॥४२०॥