SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ च प्रोषधोपवास शिक्षाव्रतं अस्ति। अष्टम्यां चतुर्दश्यां वा विशिष्ट दिनेषु उपवासं ब्रह्मचर्यपालन तत्त्वचिन्तनं ध्यानसाधनां स्वाध्यायं वैराग्येन साधुवृत्तिधारणं च अस्य व्रतस्य चर्या: सन्ति। शुद्धभावात् न्यायोपार्जिताहारादि सामग्री सपात्राय दानं मनिभ्यश्च विधिनाहारौषधोपकरणप्रतिश्रयाणां दान अतिथिसंविभागव्रतमस्ति। संग्रहवृत्तेः क्षयाय त्यागवृत्ते: प्रकाशाय विकासाय च एतव्रतमस्ति। इत्थं द्वादशव्रतपालनाय श्रावक: सामाजिक न्यायेन सह आध्यात्मिकोन्नतिं कृत्वा स्वपरसुखमनुभवति। व्रतप्रतिमायामेवोक्तानि व्रतान्येव पृथक् पृथक् प्रतिमारूपेण वर्णितानि। चतुरावर्तत्रितय: चतुर्पणाम: यथाजात: स्थित त्रियोग शुद्धः त्रिसन्ध्यमभिवन्दनं सामयिक प्रतिमा अस्ति। चतुर्पु पर्वादिषु स्वशक्तिमनिगुह्य धर्मेध्यान च तत्परत्वम् प्रोषधनियमधारणं 'प्रोषधोपवास प्रतिमा' अस्ति। जीवदया - भावनया - सचित्तापक्व सर्व मूलफलशाकशाखापत्रपुष्पादीनां त्याग 'सचित्तत्यागप्रतिमा' अस्ति। सत्त्वेष्वनुकम्पमानमना: विभावर्या अन्नं पानं खाद्यं लेश्यं च त्यजतीति रात्रिभुक्तित्यागप्रतिमा अस्ति। दिवामैथुनस्य त्याग: दिवामैथुनत्यागप्रतिमा च कथ्यते। कामसेवनस्य सर्वथा त्याग: 'ब्रह्मचर्यप्रतिमा' अस्ति। प्राणातिपातहता. सेवाकृषिवाणिज्य प्रमुरवादारम्भत: विरक्ति 'आरम्भत्याग प्रतिमा' भवति। दशसु वास्तुषु ममत्वमुत्सृज्य निर्ममत्वरत: परिग्रहाद्विरति: 'परिग्रहत्याग प्रतिमा' अस्ति। गृहारम्भे विवाहकार्ये स्वाहारे धनार्जने च अनुमतिप्रदानात् निवृत्तिः 'अनुमतित्याग प्रतिमा अस्ति। कृतकारितादि सदोष सर्वान्नं अखाद्यभिवाशेष त्यक्त्वा भिक्षयान्नं ग्रहणं उत्कृष्टोदिदष्ट त्याग प्रतिमा" भवति। एकादशप्रतिमाधारी श्रावक: साधकश्रावकः भवति। एष श्रावक: गृहत्यागी भवति। एषास्थिति: श्रावकमुनयो: मध्यवर्ती भवति। एष: श्रावक: मुनीना व्रतानाम् अभ्यासं करोति। वस्त्रद्वयधारक श्रावक: श्राविका वा क्षुल्लक: क्षुल्लिका वा उच्यते। एकखण्डवस्त्रधारक: श्रावक ऐलक: भवति। साटिकाधारी आर्यिका च कथ्यते। आर्यिकाया: स्थानं श्रमणसमानमेव भवति। साधक श्रावक मयूरपिच्छिकां कमण्डलुं च धारयति। मयूरपिच्छिका संयमस्य प्रतीका कमण्डलुश्च शुद्धेः उपकरणे भवत:। जीवनपर्यन्तं व्रतनियमान पालयित्वा श्रावक: मरणमनिवार्य ज्ञात्वा मारणान्तिकीं सल्लेखनामपि धारयति। 52 इत्थं श्रावक: पाक्षिक नैष्ठिक साधकावस्थायां निर्वाहयन आत्मोत्थानस्य सर्वश्रेष्ठमार्ग श्रमणधर्ममनुगच्छति। व्यक्तित्व विकासाय ईदृशी वैज्ञानिकी आचार संहिता अन्यत्र न भवति। 53 श्रमणाचार श्रमणाचारसंहितायां मुनिभ्य: पंचमहाव्रतानि पंचसमितय: पंचेन्द्रिय निग्रह: षडावश्यका: सप्तगुणाः इति अष्टाविंशतिर्मूलगुणा: निर्दिष्टाः। द्वाविंशतिपरिषहजय योग व्रत मौनं च श्रमणस्य उत्तरगुणाः सन्ति। क्षमादि दशधर्म अनित्यादि द्वादशानप्रेक्षायाः चिन्तनमपि श्रमणस्य कर्तव्यः। एतत्पथमनुपालन कृत्वा मनुज: निर्वाणं प्राप्तुं शक्नोति। जैनाचार्या: आध्यात्मविकासस्य चरमावस्थायै मोक्षसिद्ध्यै ध्यान योगस्यापि विस्तृतं वर्णनमकुर्वन्। 54 श्रमणाचार संहितायै पृथक प्रबन्धस्यापेक्षा वर्तते। अत: अस्य वर्णनमत्र संक्षिप्य क्रियते। इत्थम् जैनाचार: आचारसंहिताया: उच्चादर्शस्य पराकाष्ठाया: प्रतीक: अस्ति। य: आचारशुद्धि भावशुद्धिं च करोति, अन्तत: पर्यावरणशुद्धिं विदधाति। एतं न केवलं धार्मिक नियमानां संदर्भ ज्ञातव्यं अपितु दैनिक व्यवहारे आचरण योग्यं ज्ञातव्यम्। तप संयम त्यागानां त्रिवेणी इत: प्रवहमाना सती जनान् आध्यात्मगंगया आप्लाव्य न केवलं समाज राष्ट्र अपितु विश्वमपि स्वस्थजीवन पादपमंकुरयितुं प्रभविष्यति। 50 ___ अर्हत् वचन, जनवरी 2000
SR No.526545
Book TitleArhat Vachan 2000 01
Original Sutra AuthorN/A
AuthorAnupam Jain
PublisherKundkund Gyanpith Indore
Publication Year2000
Total Pages104
LanguageHindi
ClassificationMagazine, India_Arhat Vachan, & India
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy