________________
श्रावकशब्दस्य अभिप्राय:
चतुर्विधसंघस्य प्रथमश्रृंखला 'श्रावकः' अस्ति। उपासक: देशसंयमी अगारी च श्रावकस्यैव पर्यायाः सन्ति। श्रद्धात: वीतरांग अर्हदेवं निर्ग्रन्थ गुरोः शास्त्रं च य: श्रृणोति स: श्रावकोऽस्ति। आ. विजयराजेन्द्र सूरीश्वररेण श्रावक शब्दस्य निरुक्ति: इत्थं कृता -
श्रन्ति पचन्ति तत्त्वार्थ श्रद्धानं नयन्ति इति 'श्रा:' तथा वपन्ति गुणसप्त क्षेत्रेषु धन बीजानि निक्षिपन्ति इति 'वा:'
तथा किरन्ति क्लिष्ट कर्मराजो विक्षिपन्ति इति 'क: . तत: कर्मधारये श्रावका इति भवंति।" अपि च
श्रद्धालुतां श्राति श्रृणोति शासन, दान वपेदाशु वृणोतु दर्शनम्।
कृन्तत्यपुण्यानि करोति संयम, तं श्रावकं प्राहुरमी विचक्षणा: ॥ 12 रूचिसामर्थ्ययोः भिन्नताया: श्रावक: विविध विधिना साधनां करोति। एतस्याः आधार: श्रावक: पाक्षिक: नैष्ठिक: साधकश्च त्रिविध: मन्यन्तेबुधाः । श्रावकाचार :
पाक्षिकश्रावक: जिनधर्मे आस्था करोति, अहिंसाया: निर्वाहञ्च करोति। मैत्री प्रमोद कारूण्य माध्यस्थभावनानामभिवृद्धिः पाक्षिकश्रावकस्य विशेषता अस्ति। एष: श्रावकस्य प्रारम्भिकावस्था भवति। यथा कृषक: बीजवपनात् पूर्वं भूमिं नियोजयति तथैव आचारबीजवपनात् पूर्व गृहस्थ: श्रावक: अपि एता: प्रतिज्ञा: धारयति यथा अष्टमूलगुण धारणं, सप्तव्यसनत्याग, पंचपापानां त्यागं, रात्रिभोजन त्यागं, जलगालनं, षडावश्यक कर्त्तव्यान् यथाशक्तिं नित्य पालनम्।
मद्य - मांस - मधु पंचोदुम्बरफलानि च अष्टमूलगुणे परिगणितानि। 15 आ. समंतभद्र: पंचोदुम्बर फलानां अपेक्षया पंचाणुव्रतानि मन्यते। 16 वस्तुत: अष्टमूलगुणा: अन्या: प्रतिज्ञाश्च अहिंसायामेव समाहिताः भवंति। मद्यनिर्माण प्रकियायां अनन्तत्रसस्थावरजीवानां उत्पत्तिः भवति। अत: मद्यपानेन हिंसा भवति। शारीरिक मानसिक सामर्थ्यम् क्षीणम् असंयमितं च भवति। यस्मात् मदोन्मत्त स्वपरयो: भेदः, हिताहितस्य विवेके हीना च भवति। यस्मात् स: मातु:सुतायाश्च भेदं न जानाति। द्यूत - मांस-सुरा - वेश्या - परदाराभिलोभन - मृगयाचौर्यादि - सप्तव्यसनानां श्रृंखला क्रमश: वर्धते। फलत: हिंसानृतस्तेय कुशीलपरिगृहरूपाणां पंचपापानां प्रकृति बलवती भवति। भक्ष्याभक्ष्यविवेकहीन पुरुषो मांसाहारं करोति। मांसं तु पक्वमपक्वं वा शुष्क वा मृतपशोर्वा सद्य:धातपर्शीवा भवतु एतत्तु सर्वथा अभक्ष्यं, अनन्तजीवराशिसंयुतं, दुर्गन्धयुक्तमेव भवति।" शरीरसंरचनाया: दृष्ट्यापि मनुष्य: शाकाहार्येव भवति। मांसाहारेण तामसीवृत्तिं जनयति एषः शरीरे अशक्तिं उत्तेजनां च ददाति। एतस्मिन् कार्बोहाइट्रेडप्रभृति उर्जादायी तत्त्वमपि नास्ति। पाचनक्रियायां सहकारी फाईवरोऽपि नास्ति। 18 अयं शरीरे रक्तमयस्य कोलस्ट्रोलस्य मात्रां वर्द्धयति। हृदयाघात: संधिवात: रक्तचाप: केंसरप्रभृतीनाम विविध व्याधीनां जनको भवति।१ अपि च आ. कल्पेन पंडितप्रवर आशाधरेणोक्तं
संधानकं त्यजेत्सर्वं दधितक्रं द्यहोषितं। कांजिक पुष्पितमपि मद्यव्रतमलोऽन्यथा।
चर्मस्थमंभ: स्नेहश्च हिंग्वसंदृतचर्म च।
सर्व च भोज्यं व्यापन्नं दोष: स्यादमिषव्रते।20 मांसत्यागस्य शाकाहारस्य श्रेष्ठतां च अस्माकमाचार्याः अतिप्राचीनकाले एव निर्देशितवन्तः।
अर्हत् वचन, जनवरी 2000
54