________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
22
नवम्बर-२०१९
॥८॥
॥९॥
श्रुतसागर ७. सुपार्श्वनाथ आद्ये जन्मनि नन्दिराजनृपतिः श्रीधातकीद्वीपगः, श्रीमत्पूर्वविदेहमध्यगशुभापुर्याः प्रभुतान्वितः । निर्दोषव्रतधारकोऽरिदमनाचार्यस्य पादान्तिके, गीर्वाणः प्रवरो भवत् सुमनसे सार्वः सुपार्श्वस्ततः ८. चंद्रप्रभस्वामी श्रीब्रह्माभिधभूपतिः१ सुरवरः सौधर्मकल्पे२ ततो, जातश्चक्रधरो३ऽच्युते सुरपति४भूपश्च पद्माभिधः५ । दीक्षां तत्र ललौ युगन्धरगुरोः पार्श्वे सुरोऽनुत्तरे६, श्रीचन्द्रप्रभतीर्थपस्त्रिजगतां चक्रे मनस्सु स्थितिम् ९. सुविधिनाथ निश्शेषावनिपालमस्तकमणिद्वीपे तृतीये भवे, पूर्वे पूर्णगुणान्वितोऽजनि महापद्माभिधो भूपतिश्चारित्रं प्रतिपाल्य सर्वजगदानन्दान्तिके त्वानते, गीर्वाणस्तदनन्तरं जिनपतिः सुग्रीवभूपात्मजः १०. शीतलनाथ पद्माख्योऽजनि मेदिनीपरिवृढः शास्ता सुसीमापुरः, प्रव्रज्यां प्रतिपद्य दैवतवरः कल्पे पुनः प्राणते। नन्दाकुक्षिसरोजिनीमधुकरस्तीर्थाधिपः शीतलः, पाथोजन्मसहोदरो दृढरथक्ष्मापालवंशाम्बरे ११. श्रेयांसनाथ द्वीपे पुष्करसञके च नलिनीगुल्माख्यभूमीप्रभुः, जातः सारशुभापुरीपरिवृढः श्रीवज्रदन्तान्तिके। त्यक्त्वा सर्व परिग्रहं सुरवरः कल्पे पुनदशे, सूनुर्विष्णुमहीपतेर्विजयते श्रेयांसनामा जिनः
॥१०॥
॥११॥
॥१२॥
For Private and Personal Use Only