________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
41
श्रुतसागर
नवम्बर-२०१४ पायसैः सुशर्करा-घृताङ्कि(न्वि)तैश्चरूत्तमै
भूमिपात्रैरोपितैः कलादिशुद्धनिर्मितैःद्वीपनन्दिनामनीह चाऽष्टके रतीकरे, पूजयामि शाश्वतान् जिनेश्वरान् सुभक्तितः ॥८॥ ॐ ह्रीं [श्री]नन्दीश्वरद्वीपे उत्तरादिशाश्रितारती(ति)कराष्टके [श्री]
जिनबिम्बेभ्यो नैवेद्यं यजामीति स्वाहा ॥८॥ नीर-गन्धना-ऽक्षतैः सपुष्पकैः सुदीपकैश्चारुरूप भोज्य]-सत्फलैः सधूपकैः जिनाऽर्घकम् (सुगन्धिभिः)। द्वीपनन्दिनामनीह चाऽष्टके रतीकरे, पूजयामि शाश्वतान् जिनेश्वरान् सुभक्तितः॥१॥ ॐ ह्रीं [श्रीनन्दीश्वरद्वीपे उत्तरदिशाश्रितारती(ति)कराष्टके [श्री]
जिनबिम्बेभ्योऽयं यजामीति स्वाहा ॥९॥ ॥इति उत्तरदिगाश्रितरतिकराष्टकस्थितजिनबिम्बपूजा॥ पूजाष्टकस्तुतिमिमामसमामधीत्य, योऽनेन चारुविधिना वितनोति पूजाम्। भुक्त्वा नराऽमरसुखान्यविखण्डिताक्षः(क्षो), धन्यः स वासमचिराल्लभते शिवेऽपि ॥
॥इति श्रीउत्तरदिशाश्रितत्रयोदशगिरिस्थितजिनबिम्बपूजा। भक्त्या श्रीजिनचैत्यानां, कुर्वन्तो(न्तः) चन्दनार्चनम्(पूजनार्चने) नन्दीश्वरस्तुति-स्तोत्र-पाठपावितमानसाः॥१॥ भव्या नन्दीश्वर(रं) द्वीप-मेवमाराधयन्ति ये। तेऽर्जयन्त्याऽऽर्जवोपेताः, श्रेयसी शाश्वतीं श्रियम् ॥२॥ [युग्मम्] इत्थं व्यावर्णितरूपं(चोक्तस्वरूपं श्री-), द्वीपं नन्दीश्वराभिधम्। तिष्ठन्त्या(त्या)ऽऽवेष्ट्य परितो, नन्दीश्वरोदवारिधिः ॥३॥ रत्नशेखरसूरिश्च, वदत्येवं जिनाधिपान्। कुर्वन्त्यभ्यर्चनं भव्याव्याः], प्राप्नुवन्ति परं पदम् ॥४॥
॥इति नन्दीश्वरद्वीपजिनबिम्बपूजा समाप्ता॥ १. अत्र चरणे 'भृत् सुपात्रसंस्थितैर्नरेन्द्रभोगयोग्यकैः' इति पाठः योज्यः।
For Private and Personal Use Only