________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
31
श्रुतसागर
नवम्बर-२०१४ [श्रीपश्चिमदिशाश्रितरतिकराष्टकस्थितजिनबिम्बपूजा] अपरायां दिशायां च, नाम्ना रतिकरोगिरिः। तत्र स्थितं जिनबिम्बं (जिनेशं च), पूजयामि सुभक्तिभाक् ॥१॥ तत्र दिग् सुरपूज्यश्च, द्वितीयो यो रतीकरः। तत्र स्थिताज(न्) जगन्नाथान्, पूजयामि विशुद्धये ॥२॥ पश्चिमायां दिशायां च, तृतीयो यो रतीकरः। तत्रस्थित(तान्) जिनवरान् (जगन्नाथान्), पूजयामि सुभक्तितः ॥३॥ अपरायां दिशायां च, चतुर्थो यो रतीकरः। तत्रस्थितं जिनवर्ग (जिनेशं च), पूजयामि दृढात्मतः (विशुद्धये) ॥४॥ अपरेदिग्विभागेऽस्मिन्, पञ्चमो यो रतीकरः। तत्रस्थित(तान्) जिनेन्द्रांश्च, पूजयामि शिवाप्तये ॥५॥ वारुणीदिशमाश्रित्य, स्थितः षष्ठो रतीकरः। तत्रस्थित(तान्) जिनेन्द्रांश्च. पूजयामि शिवाप्तये ॥६॥ अपरां दिशि(श)माश्रित्य, सप्तमो यो रतीकरः। तत्रस्थित(तान्) जिनेन्द्रांश्च, पूजयामि शिवाप्तये ।।७॥ श्रीमत्पश्चिमदिग्भागे, चाऽष्टमो यो रतीकरः। तत्रस्थित(तान्) जिनेन्द्रांश्च, पूजयामि शिवाप्तये ॥८॥
ॐ ह्रीं श्रीनन्दीश्वरद्वीपस्थितरती(ति)कराष्टक[अष्टरती(ति)कर] पर्वताश्रित [श्री| जिनबिम्बेभ्यो(भ्यः) पूजां यजामीति स्वाहा॥ [ॐ ह्रीं [श्रीनन्दीश्वरद्वीपे] पश्चिमदिगाश्रितरती(ति)कराष्टकेषु श्रीजिनबिम्बेभ्यो(भ्यः) पूजां यजामीति स्वाहा॥]
॥अथाऽष्टकम्॥ गङ्गादितीर्थभवजीवनधारया च, संच(?)द्विषाऽखिलसुमङ्गलपुण्यमूर्तीन्। श्रीपश्चिमाश्रितरतीकरभूधरेषु, नन्दीश्वरे जिनवरान् परिपूजयामि ॥१॥
For Private and Personal Use Only