________________
Shri Mahavir Jain Aradhana Kendra
श्रुतसागर
www.kobatirth.org
29
पश्चिमायां दिशायां च, नाम्ना दधिमुखो गिरिः । तत्रस्थान् गतरार्गांश्च, पूजयामि जिनेश्वरान् ॥१॥
वरुणाश्रितदिग्भागे, द्वितीयो यो दधिमुखः । तत्रस्थान् [श्री ]जिनेन्द्रांश्च, पूजयामि सुभक्तितः ॥२॥
पश्चिमायां दिशायां च(यो), तृतीयो यो दधिमुखः । तत्रस्थित(तान्) जिनाधीशान्, भक्त्या सम्पूजयाम्यहम् ॥३॥
Acharya Shri Kailassagarsuri Gyanmandir
तत्र पश्चिमदिग्भागे, चतुर्थो यो दधिमुखः । तत्रस्थित्(तान्) जिनाधीशान्, पूजयामि दृढात्मतः (सुभक्तितः) ॥४॥ ॐ ह्रीँ श्रीनन्दीश्वरद्वीपे पश्चिमदिगाश्रितदधिमुखचतुष्के श्रीजिनबिम्बेभ्यो (भ्यः) पूजां यजामीति स्वाहा ॥
॥ अथाऽष्टकम् ॥
स्वर्गङ्गतोयैः परमैः पवित्रैः सच्छीतलैर्हेमघटाश्रितैश्च नन्दीश्वरे पश्चिमदिग्गतेषु, दधीमुखेषु प्रभुमर्चयै (ये) ऽहम् ॥१॥
ॐ ह्रीँ श्रीनन्दीश्वरद्वीपे पश्चिमदिगाश्रितदधिमुखचतुष्के श्रीजिनबिम्बेभ्यो जलं यजामीति स्वाहा ॥१॥ काश्मीर - कर्पूर - सुचन्दनाद्यैः, सुगन्धद्रव्योत्कटपीतवर्णैः । नन्दीश्वरे पश्चिमदिग्गतेषु, दधीमुखेषु प्रभुमर्चयेऽहम् ॥२॥
नवम्बर २०१४
ॐ ह्रीँ श्रीनन्दीश्वरद्वीपे पश्चिमदिगाश्रितदधिमुखचतुष्के श्रीजिनबिम्बेभ्यश्चन्दनं यजामीति स्वाहा ॥२॥
सत्केतकी-जाति-कदम्बपुष्पै, रलीमद्यैश्चम्पकपारिजातैः । नन्दीश्वरे पश्चिमदिग्गतेषु, दधीमुखेषु प्रभुमर्चयेऽहम् ॥३॥
रत्नप्रभाभासुरभाजनस्थैर्हतान्धकारैर्घनसारदीपैः । नन्दीश्वरे पश्चिमदिग्गतेषु, दधीमुखेषु प्रभुमर्चयेऽहम् ॥४॥
ॐ ह्रीं श्रीनन्दीश्वरद्वीपे पश्चिमदिगाश्रितदधिमुखचतुष्के श्रीजिनबिम्बेभ्यः पुष्पं यजामीति स्वाहा ॥३॥
For Private and Personal Use Only