________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
27
श्रुतसागर
नवम्बर-२०१४ पूजाष्टकस्तुतिमिमामसमामधीत्य, योऽनेन चारुविधिना वितनोति पूजाम्। भुक्त्वा नरामसुखान्यविखण्डिताक्षः(क्षो) धन्यः स वासमचिराल्लभते शिवेऽपि॥१॥ ॥ इति श्री दक्षिणदिगाश्रितत्रयोदशगिरि[स्थित/जिनबिम्बपूजा समाप्ता ॥
[श्रीपश्चिमदिग्गताञ्जनगिरिस्थितजिनबिम्बपूजा] श्रीमत्पश्चिमदिग्भागे, ह्यञ्जनो हि गिरिर्मतः। तत्रस्थित(तान्) जिनाधीशान्, पूजयामि शिवाप्तये ॥१॥
ॐ ह्रीं श्रीनन्दीश्वरद्वीपे पश्चिमदिग्स्थिताञ्जनगिरौ श्रीजिनबिम्बेभ्यो(भ्यः) पूजा यजामीति स्वाहा।
।। अथाऽष्टकम् ॥ क्षीरोदधिस्वच्छनीरैः (नीरैः क्षीरोदधिस्वच्छै:), सिताभ्रवरवासितैः। नन्दीश्वरे'ऽपरदिग-ञ्जनाद्रौ पूजये जिनान् ॥१॥
ॐ ह्रीं श्रीनन्दीश्वरद्वीपे पश्चिमदिग्स्थिताजनगिरौ
श्रीजिनबिम्बेभ्यो जलं यजामीति स्वाहा ॥१॥ नन्दनोद्भवश्रीखण्डैः, केसरादिसुमिश्रितैः (केसरादिसुसंयुतैः)। नन्दीश्वरेऽपरदिगाऽपरेदिश्य-Jञ्जनाद्रौ पूजये जिनान् ।।२॥
ॐ ह्रीं श्रीनन्दीश्वरद्वीपे पश्चिमदिग्स्थिताजनगिरौ
श्रीजिनबिम्बेभ्यश्चन्दनं यजामीति स्वाहा ॥२॥ कुसुमै ङ्गसंसेव्यै-श्चम्पकादिसुपारिजैः[श्चम्पका-ऽम्बुज-पाटलैः] नन्दीश्वरेऽपरदिग-ञ्जनाद्रौ पूजये जिनान् ।।३।।
ॐ ह्रीं श्रीनन्दीश्वरद्वीपे पश्चिमदिग्स्थिताजनगिरौ
श्रीजिनबिम्बेभ्यः पुष्पं यजामीति स्वाहा ॥३॥ प्रदीपैर्ध्वस्तध्वान्तौघैः, शिखाभङ्गः सुज्योतिभिः (?) नन्दीश्वरेऽपरदिग-ञ्जनाद्रौ पूजये जिनान् ॥४॥
१. 'ऽपरदिग-अनाद्रौ' इत्यस्य स्थाने 'ऽपरे दिश्य-जनाद्रौ इति पाठः समुचितः?
For Private and Personal Use Only