________________
साधना की प्रक्रिया
अवैराग्यञ्च मोहश्च, नात्र भेदोऽस्ति कश्चन। विषयग्रहणं तस्मात्, ततश्चेन्द्रियवर्तनम्॥१॥
मनसश्चापलं तस्मात्, संकल्पाः प्रचुरास्ततः।
प्राबल्यं तत इच्छाया, विषयासेवनं ततः॥२॥ वासनायास्ततो दादर्य, ततो मोहप्रवर्तनम्। मोहव्यूहे प्रविष्टानां, मुक्तिर्भवति दुर्लभा ॥३॥
अवैराग्यञ्च सर्वेषां, भोगानां मूलमिष्यते।
वैराग्यं नाम सर्वेषां, योगानां मूलमिष्यते ॥ ४॥ विषयाणां परित्यागो, वैराग्येणाशु जायते। अग्रहश्च भवेत्तस्मादिन्द्रियाणां शमस्ततः ॥५॥
मनःस्थैर्य ततस्तस्माद्, विकाराणां परिक्षयः।
क्षीणेषु च विकारेषु, त्यक्ता भवति वासना ॥ ६ ॥ स्वाध्यायश्च तथा ध्यानं, विशुद्धः स्थैर्यकारणम्। आभ्यां सम्प्रतिपन्नाभ्यां, परमात्मा प्रकाशते ॥ ७ ॥
श्रद्धया स्थिरयाऽऽपन्नो, जयोऽपि चिरकालिकः।
सुस्थिरां कुरुते वृत्तिं, वीतरागत्वभावितः ॥ ८ ॥ भावनानाञ्च सातत्यं, श्रद्धां स्वात्मनि सुस्थिराम्। लब्ध्वा स्वं लभते योगी, स्थिरचित्तो मिताशनः॥९॥
पर्यङ्कासनमासीनः, स्थिरकाय ऋजुस्थितिः।
नासाग्रे पुद्गलेऽन्यत्र, न्यस्तदृष्टिः स्वमश्नुते ॥ १०॥ आत्मा वशीकृतो येन, तेनात्मा विदितो ध्रुवम्। अजितात्मा विदन् सर्वमपि नात्मानमृच्छति ॥ ११॥
सम्बोधि पुस्तक से
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org