SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ संदर्भ :१. विशेषावश्यक भाष्य गाथा १०३ वृत्ति : इह केवलिनो विहाय शेष संसारिजीवानां सर्वेषामप्यतिस्तोक बहु बहुतर बहुतमादि तारतम्यभावेन द्रव्येन्द्रियेष्वसत्स्वपि लब्धीन्द्रियपञ्चकावरण क्षयोपशमः समस्त्येवेति परममुनिवचनम् । ततश्च यथा येन प्रकारेण पृथिव्यादीनामेकेन्द्रियाणां श्रोत्रचक्षु घ्राणरसनलक्षणानां प्रत्येक निर्वत्युपकरणरूपाणां द्रव्येन्द्रियाणां तत्प्रतिबन्धक कर्मावृतत्वादवरोधप्यभावेपि सूक्ष्ममव्यक्तं लब्ध्युपयोगरूपं श्रोत्रादिभावेन्द्रियज्ञानं भवति, लब्धीन्द्रियावरणक्षयोपशमसंभूताऽणीयसी ज्ञानशक्तिर्भवतीत्यर्थः । इदमुक्तं भवति एकेन्द्रियाणां तावच्छोत्रादि द्रव्येन्द्रियाभावेपि भावेन्द्रियज्ञानं किञ्चिद् दृश्यत एव, वनस्पत्यादिषु स्पष्टतलिङ्गोपलंभात् । २. वही : तथाहि कलकण्ठोद्गीर्णमधुर पञ्चमोद्गार श्रवणात् सद्यः कुसुमपल्लवादि प्रसदो विरहवृक्षादिषु श्रवणेन्द्रियज्ञानस्य व्यक्तं लिङ्गमवलोक्यते । तिल कादितरुषु पुनः कमनीयकामिनीकमलद नदीर्घशरदिन्दुधवललोचनकटाक्षविक्षेपात् कुसुमाद्याविर्भावश्चक्षुरिन्द्रिय ज्ञानस्य, चम्पकाहिपेषु तु विविध-सुगन्धि गन्धवस्तु निकुरम्बोन्मिश्र विमल शीतल सलिल सेकात् तत्प्रकटनं घ्राणेन्द्रिय ज्ञानस्य, बकुलादिभूरूहेषु तु रम्भातिशायिप्रवररूप वरतरुणभामिनीमुखप्रदत्तस्वच्छसुस्वादु सुरभिवारुणी गण्डूषा स्वादनात् तदाविष्करणं रसनेन्द्रिय ज्ञानस्य, कुरबकादिविटपिष्वशोकादि द्रुमेषु च घनपीनोन्नतकठिन कुचकुम्भविभ्रमापभ्राजितकुम्भीनकुम्भ रणन् मणिवलय क्वणत् कङ्कणा भरणभूषित भव्यभामिनी भुजलताऽव गूहन सुखाद् निष्पिष्टपद्मरागचूर्ण शोणतलतत्पादकमले पाष्णिप्रहाराच्च झगिति प्रसून पल्लवादिप्रभवः स्पर्शनेन्द्रियज्ञानस्य स्पष्ट लिङ्गमभिवीक्ष्यते । ३. राजस्थान पत्रिका जयपुर संस्करण दिनांक ६ जून १९९६ का अंक ।। ४. विशेषावश्यकभाष्य गाथा १०३ वृत्ति--- यथतेषु द्रव्येन्द्रियासत्त्वेप्येतद् भावेन्द्रिय-- जन्यज्ञानं सकलजनप्रसिद्धमस्ति, तथा द्रव्यश्रुताभावेभावश्रुतमपि भविष्यति । दृश्यते हि जलाद्याहारोपजीवनाद् वनस्पत्यादीनामाहार संज्ञा, संकोचन वल्ल्यादीनां तु हस्तस्पर्शादिभीत्याऽवयवसंकोचनादिभ्यो भयसंज्ञा, विरहक तिलक चम्पक केशराशोकादीनां तु मैथुन संज्ञाशितैव, विल्वपलाशादीनां तु निधानीकृतद्रविणोपरिपादमोचनादिभ्यः परिग्रहसंज्ञा । न चैताः संज्ञा भावश्रुतमन्तरेणोपपद्यन्ते । ५. दैनिक नवज्योति जयपुर संस्करण १७ जून १९९६ का अंक । खंड २२, मंक २ ११९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524588
Book TitleTulsi Prajna 1996 07
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1996
Total Pages204
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy