________________
भव्यारविन्दप्रतिबोधहेतुरखण्डवृत्तः प्रतिसिद्धदोषः । श्रयन्नपूर्वेन्दुतुलामिह श्रीभद्रेश्वरो नाम बभूव सूरिः ||२|| तत्पट्टपूर्वाचलचण्ड रोचिरजायत श्रीहरिभद्रसूरिः । मुदं न कस्मै रहितं विकृत्या तपश्च चित्तं च तनोति यस्य ॥३॥ श्रीमानथाजायत शांतिसूरिर्यतः समुद्रादिव शिष्य मेघाः । ज्ञानामृतं प्राप्य शुभोपदेशवृष्ट्या व्यधुः कस्य मनो न शस्यम् ? ॥४॥ ततो बभूवाभयदेरसूरिर्यदीयवाणी गुणरत्नद्वद्या | मेधाभरेन्द्रल्लसिता विभाति वेलेव मध्यस्थ जिनागमाब्धे ||५| प्रसन्नचन्द्रोऽथ बभूव सूरिर्वक्तुं गुणान्यस्य नहि क्षमोऽभूत् । सहस्रवक्त्रोऽपि भुजङ्गराजस्ततो हियेवैष रसातलेऽगात् ॥६॥ अथाजनि श्रीमुनिरत्नसूरिः स्वबुद्धिनिद्धू तसुरेन्द्रसूरिः । रत्नन्ति शास्त्राण्यखिलानि यस्य स्थिरोन्नते मानसरोहणाद्रौ ||७|| श्रीचन्द्रसूरिः सुगुरुस्ततोऽभूत्प्रसन्नतालङ कृतमस्दोषम् । चित्तं च वाक्यं च वपुश्च यस्य कं न प्रमोदोत्पुलकं करोति ? ॥८॥ सूरिर्यशोदेव इति प्रसिद्धस्ततोऽभवद्यत्पदपङ्कजस्य । रजोभिरालिङ्कितमौलयोऽपि चित्रं पवित्राः प्रणता भवन्ति ॥९॥ तत्पाणिपद्मोल्लसितप्रतिष्ठः श्रचिन्द्रसूरिप्रभुशिष्यलेशः । देवेन्द्रसूरिः किमपीति सारोद्धारं चकारोपमितेः कथायाः ॥१०॥
श्रीविक्रमादित्यनरेन्द्रकालादष्टानवत्यर्य मसंख्यवर्षे (१२९८ ) । पुष्यार्क भृत् कात्तिक कृष्णषष्ठ्यां सन्पूर्ण तामेष समाससाद || १४॥ उपमितिभवप्रपञ्चकथासारोद्धार- संपा० - संशोधक - पंन्यास मानविजयकान्तिविजय, आचार्यदेवभ्रमिद्विजयकमलसूरि- जैन
ग्रन्थमाला
ग्रन्थांक १४, पाटण, वि० सं० २००६, प्रशस्ति, पृ० १९३ १४. गुलाबचन्द्र चौधरी - जैन साहित्य का बृहद् इतिहास भाग ६, पार्श्वनाथविद्याश्रम ग्रन्थमाला, ग्रन्थांक २०, पार्श्वनाथ विद्याश्रम शोध संस्थान, वाराणसी, १९७३ ई०, पृ० १२१-१२३
15. P. Peterson-Fourth Report of Operation in Search of Sanskrit Mss in the Bombay Circle Bombay, 1894 A. D, No. 1361, P. 123-124.
१६. गुलाबचन्द चौधरी, पूर्वोक्त, पृ० २९६-२९७
१७. वहीं, पृष्ठ ३५३
३४२
Jain Education International
For Private & Personal Use Only
तुलसी प्रज्ञा
www.jainelibrary.org