________________
(घ) प्रवचनसारोद्धार पत्र ४३०-'सम्प्रति समिभन्नश्रोतोलब्धिमाह'-'जो'
इत्यादि, यः सर्वतः-सर्वैरपि शरीरदेशः शृणोति स सम्मिन्नश्रोता, अथवा यः सर्वानपि शब्दादीन् विषयान् सर्वैरपि श्रोताभिः–इन्द्रियर्जानाति, एकतरेणापीन्द्रियेण समस्तापरेन्द्रियगम्यान् विषयान् योऽवगच्छतीत्यर्थः, स सम्भिन्नश्रोतोलब्धिमान्, अथवा द्वादशयोजन विस्तृतस्य चक्रवतिकटकस्य युगपद् ब्र वाणस्य तत्तूर्यसंघातस्य वा समकालमास्फाल्यमानस्य सम्मिन्नान्-लक्षणतो विधानतश्च परस्परं विभिन्नान् जननिवहसमुत्थान् शङ्ककाहलभेरीभाणकढक्कादितूर्य समुत्थान् वा युगपदेव च सुबहून् शब्दान
यः शृणोति स संभिन्नश्रोताः सम्भिन्नश्रोतोलब्धिरिति । ११. (क) आ० चूणि पत्र ६८ .- उज्जुमतिलद्धिगहणेण य विउलमतिलद्धीऽपि
गहिता चेव, तत्थ उज्जुमती नाम मनोगतं भावं पडुच्च सामण्णमेत्तग्गाहिणी मती जस्स सो उज्जुमती भवति, विउलम ती नाम मणोगयं भावं
पडुच्च सपज्जायगाहिणी मती जस्स सो विउलमती भन्नति । (ख) आ० उपोद्घात पत्र-ऋज्वी-प्रायो घटादिग्राहिणी मतिः ऋजुमतिः
विपुलमतिमनःपर्यायज्ञानापेक्षया किञ्चिदविशुद्धतरं मनःपर्याय
ज्ञानमेव । (ग) प्रवचनसारोद्धार पत्र ४३१-~-मनःपर्यायज्ञानं द्वेधा-ऋजुमति विपुल
मतिश्च । तत्र सामान्य घटादिवस्तुमात्र चिन्तनप्रवृत्तमनःपरिणामग्राहि किञ्चिद विशुद्धत रमतृतीयागुलहीनमनुष्यक्षेत्रविषयं ज्ञानं ऋजुमतिः, पर्यायशतोपेतघटादिवस्तुविशेषचिन्तनप्रवृत्तमनोद्रव्यग्राहि
स्फुटतरं संपूर्ण मनुष्य क्षेत्रविषयं ज्ञानं विपुलमतिलब्धिः । १२. (क) आ० चूणि पत्र ६८ -तत्थ सव्वोसधी नाम सव्वाओ ओसधीओ आमोसधि
मादीयाओ एगजीवस्स चेव जस्स समुप्पण्णाओ स सव्वोसधी भन्नति, अहवा सव्वसरीरेण सव्वसरीरावयवे हि वा खेलोसधिमादी हिं जो ओसहिसामत्थजुत्तो सो सम्वोसधी भन्नति, अहवा सव्ववाहीणं जो निग्गहसमत्थो
सो सम्वोसधी भन्नति । (ख) आ० उपोद्घात पत्र ७८- --'सव्वोसहि' इति सर्व एव विडमूत्रकेशनखा
दयोऽवयवाः सुरमयो व्याध्यपनयनसमर्थत्वादौषधयो यस्यासौ सवौंषधिः, अथवा सर्वा-आमोषध्यादिका औषधयो यस्य एकस्यापि साधोः स
तथा । (ग) प्रवचनसारोद्धार पत्र ४३०-यन्माहात्म्यतो विण्मूत्रकेशनखादयश्च
सर्वेऽप्यवयवाः समुदिताः सर्वत्र भेषजीभावं सौरभं च भजन्ते सा
सवौषधिरिति । १३. (क) आ० उपोद्घात पत्र ७८-'चारण' इति चरणं-गमनं तद्विद्यते येषां ते
चारणाः, ज्योस्नादिभ्योऽण् इति मत्वर्थीयोऽण प्रत्ययः, तत्र गमनमन्येषा
मप्यस्ति ततो विशेषणान्यथानुपपत्या चरणमिह विशिष्टं गमनागमनं खंड १८, अंक २ (जुलाई-सित०, ९२)
१३९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org