________________
कुतःशाखेतिन्यायात् । यतनीयमेवंविधस्य परमज्योतिष आत्मन्याविर्भावे, तद्रूपत्वात्तत्त्वतो मोक्षस्येत्यत्र तात्पर्यम् । ननु च दीपादिरूपमेव ज्योतिर्नः प्रसिद्धम्, लोकस्य च, न तु भवद्भिर्महता प्रबन्धन व्यावर्ण्यमानं परमज्योतिः, स्वप्नेऽप्यनीक्षितत्वात्, तत् किमत्र तत्त्वमिति चेत् ? अत्रोत्तरयन्ति
दीपादि पुद्गलापेक्षं, समलं ज्योतिरक्षजम्।
निर्मलं केवलं ज्योति-निरपेक्षमतीन्द्रियम् ॥४॥ पुर्लाः प्रकृते तैलवादिरूपाः, तदपेक्षं हि दीपादिरूपं ज्योतिर्भवति, तत्क्षये तत्क्षयस्यान्यथाऽनुपपत्तेः । किञ्चान्धप्रदीपन्यायात् केचिच् चक्षुषो ज्योतिर्भावं व्याचक्षते, किन्तु तदपि समलम्, तिमिरादिरोगमलसम्भवेन तन्मालिन्यदर्शनात् । उपलक्षणमिदम्, तेन दीपादिज्योतिषः पवनादिगोचरत्वमत्यन्तपरिमितक्षेत्रप्रकाशकत्वं चापि बोध्यम्, एवं चक्षुषः समीपवर्त्तिनो निरावृतस्य वस्तुनोऽर्वाग्भागमात्रप्रकाशकत्वमपि विलोक्यम् । इत्थञ्च स्वल्पतरमत्र ज्योतिष्ट्वम्, अधिकतरं त्वन्धकारत्वमिति सूक्ष्ममीक्षणीयम् । तथा च सति लोकप्रसिद्धमेव तत्तज् ज्योतिः, न तु तत्त्वज्ञप्रसिद्धमिति सिद्धम्। यत्तु प्रागुक्तनीत्या बाह्यवस्तुनिरपेक्षम्, आत्मस्वभावभूतत्वेनातीन्द्रियम्, सर्वविजातीयकलङ्कनिर्मुक्ततया केवलम्, अत एव निर्मलञ्च, तदेव परमार्थज्योतिः, तथाविधस्य ज्योतिरन्वर्थोपेतत्वात् । श्रेयानत एतदर्थः पुरुषार्थः, इतराभियोगस्य तमोमात्रपर्यवसानादित्यत्राऽऽशयः। अथ निरुपयोग्येवेदं परमज्योतिर्निरूपणम्, कर्मादिभावे तदनुभावोद्भावाभावात्, तथा चास्य खपुष्पप्रायत्वादिति चेत् ? न, तद्भावेऽपि तदनुभावस्यानुभूयमानत्वात्, यतः
कर्मनोकर्मभावेषु, जागरुकेष्वपि प्रभुः।
तमसाऽनावृतः साक्षी, स्फुरति ज्योतिषा स्वयम् ॥ ५ ॥ प्रभुरित्ययमात्मैव, अचिन्त्यप्रभुतोपेतत्वात् । स चात्मगुणाऽऽवारकस्य कर्मलक्षणद्रव्यस्य शरीररूपस्य च नोकर्मवस्तुनः सत्त्वेऽपि स्वयं तमसाऽनावृतः साक्षिमात्रो ज्योतिषा स्फुरति।