SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Vol. III-1997-2002 Jain Education International પંદરમા શતકનાં બે નવપ્રાપ્ત સ્તોત્રો श्रीराणपुर- चतुर्मुखयुगादिदेवस्तवम् (आर्याच्छन्दः) सुषमाऽतिपुराणपुरे राणपुरे श्रीचतुर्मुखं प्रणमन् । प्रथमजिनं सुकृतार्थी सुकृताऽर्थी भवति को न जनः ? ॥१॥ त्वयि जनकदम्बकानन-कदम्बकाऽऽनन ! घनाघन समान ! । अद्यानि मम दृष्टेऽजनि मम दृष्टेः सफलभावः ॥२॥ किङ्करमानि बिडौजसि निबिडौजसि यस्त्वयीश ! भक्तिपरः । तं संवर- रमणीयं वररमणीयं भजेन् न किं मुक्ति ॥३॥ अविरतमनघ ! नमज्जन- घन ! मज्जनतस्तैवागमोर्मिषु । जलधिवदुरुकमलाऽऽलय ! मलाऽलयः कैर्न मुच्यन्ते ||४|| तव जगदाऽऽनंदीश्वर ! नन्दीश्वर- चैत्यविजयिनमित्य । सुधियोऽप्यमुमनि भाऽऽलयमनिभालयतः कथं मुधा न जनुः ॥५॥ स्वमसम - समुदयसदनं समुदय सदनन्त- तेजसां मन्ये । यदञ्जन नमने निजजननमनेनिजमहं तवाऽऽद्यकृते ॥६॥ शिवमेल सज्जपाऽवन ! लसज्जपा-वन विडम्बिनि शु(सु) द्यौ । पदनखमहे शलभतां महेश ! लभतां ममाऽघभरः ||७|| जगदमि धर्मधुरन्धर ! मधुरं धरणेन्द्रः गायति यशस्ते । चतुरास्यविभुविहारं भुवि हारं यद् ध्रुवं नास्यः ( नास्यत्) ॥८॥ श्री सोमसुन्दरप्रभं दरप्रभग्नाङ्गितप्तिजयचन्द्र ! इति नुत ! (ति) मामनुपरमां मनुपरमां वृषभ ! शिवरमां देयाः ॥ ९ ॥ इति श्री राणपुरालंकार श्री चतुर्मुखप्रासादमण्डन श्रीयुगादिदेव जिनस्तवः तपगच्छनायक परमभट्टारक प्रभु श्रीश्रीश्रीसोमसुंदरसूरिशिष्य श्रीभट्टारकप्रभु श्रीसोमदेवसूरिपादैः प्रणीतः ॥ लेखनसम्वत् १५१३ वर्षे कार्त्तिक वदि ४ रविवासरे ॥ For Private Personal Use Only ૧૭૫ www.jainelibrary.org
SR No.522703
Book TitleNirgrantha-3
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year2002
Total Pages396
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy