________________
૧૭૪
Jain Education International
મુનિ કૃતપુણ્યસાગર
श्रीपार्श्वजिनस्तोत्रम् (वंशस्थ छन्दः )
विभाति यद् भास्तरुणारुणारुणा तनू' घनस्था त्वचला चला चला । तवाऽत्रते पार्श्व ! महेम हे मरे-श्वरायितुं निर्विपदे पदे पदे ॥१॥ विदुर्यदुच्चैः सुकृते कृतेकृते प्राप्यं स्वसंवित् कलयालयालयाः । तन्मेऽस्त्यघह (त्) प्रकरे करेकरे त्वय्यद्य दृष्टेऽतिसुखं सुखंसुखम् ॥२॥
नते प्रपीड्या पुरुषा रुषाऽरुषा नतांश्च दृष्टाः समया मयामयाः । नमंति तान् मुद्रसवासवासवा येषां मतिस्ते रमते मतेऽमते ! ||३|| वहेविनम्र सदा सदा सदा सदाऽऽयताऽक्षनागं भवता बताऽवता । आर्द्रीकृतान्तर्हृदयोदयोदयो निदर्शितः सद्विधिनाधिनाधिना ॥४॥
यदीयगीचङ्गा-गमा गमाऽऽगमावनी समा मोहरतीरतीरती । उपासते त्वामदरा दरादरा पहं न के सन्महितं हि तं हितम् ॥५॥ तावत् कुविद्यागुरवो खोवो वाददवः संयमधाम धामधाः । यावद्भवत्तीर्थ्यघनाघनाघना नोद्यन्ति तद्विप्लवदाव - दाव - दाः ॥६॥
प्रपञ्चितामप्पतिभीतिभीतिभी रुणद्धि भक्त्योल्लसतां सतां स ताम् । त्वन्मूर्तिरति सकला कला कला वपीश ! क्लृप्तव्यसना सनासना ॥७॥
त्वयि प्रसन्ने प्रगुणागुणागुणा द्विषोऽपि प्राज्यमहा महामहा । भवेत् सदा दित्वरधीरधीरधीर धी-शता च जन्तुष्वतिभूतिभूति भूः ॥८॥
( शार्दूलविक्रीडित छन्दः )
इत्थं स्तोत्रपथं कथं घन घन श्यामाङ्ग ! वामाङ्गज !
त्वां नीत्वा तनुधीरपि त्रिभुवन - त्राणैकदीक्षागुरो ! नेन्द्रत्वादि वरं जिनेश ! न वरं नाथामि नाथाऽमिताऽऽ नंद ! श्रीगुरुसोमसुन्दरपरब्रह्मप्रकाशोदयम् ||९||
इति श्री पार्श्वदेवाधिदेवस्तवः श्री तपागच्छगगननभोमणि श्रीपूज्यसोमसुन्दरसूरिशिष्यश्रीमहोपाध्यायादिदेवश्रीसोमदेवसूरिपादैर्विरचितः ॥ लेखनसम्वत् १५१३ वर्षे कार्त्तिक वदि ४ रविवारे ॥
१. किमङ्ग मे रुचिरा चिराचिरा -
लाद. द. भे. सू. २९४४४
For Private Personal Use Only
Nirgrantha
www.jainelibrary.org