SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Vol. III - 1997-2002 ૧૬૩ श्रीविषुधप्रमाया थित.... ॥ श्रीविवाहप्रज्ञप्तिपञ्चमाङ्गस्तोत्रम् ॥ (शिखरिणीवृत्तम्) चतुर्विंशश्रीमज्जिन विततवंश ध्वजलते ! सुधर्मस्याम्युद्यद्-वदनविधुचन्द्रातपतते ! ! नव-स्फुर्जत्-तत्त्वप्रकटनकलादीपकलिके ! विवाहप्रज्ञते ! जय जय जय त्वं भगवति ! ॥१॥ जितात्मा षण्मासावधिसमयसंसाधनपरः, सहायैः सम्पन्नो गतविकृतिकाचाम्लतपसा । उपास्ते भक्त्या श्रीभगवति गतक्लान्तिरनिशं; महामन्त्रं यस्त्वां स भवति महासिद्धि भवनम् ॥२॥ शिव श्रीवश्यत्वं विकटविपदुच्चाटनघटां, समाकृष्टिं सिद्धेविषयमनसो द्वेषणविधिम् । विमोहं मोहस्य प्रभवदशुभस्तम्भविभवं; ददत्या मन्त्रत्वं किमिव भगवत्या न भवति ? ॥३॥ महाघ रत्नाढ्यं प्रसृमरसुवर्णं निधिमिव, क्षमा-संवीतं त्वां सुभग ! भगवत्यङ्ग ! कृतिनः ! तपस्यन्तो ज्ञानाञ्जननिचितसद्दर्शनतया; लभन्ते ये ते स्युर्नहि जगति दौर्गत्यभवनम् ॥४॥ गभीरः सद्रनो दिशि विदिशि विस्मेरमहिमा, क्षमाभृद्भिः सेव्यो जयति भगवत्यङ्गजलधिः । कवीन्द्राः पर्जन्या इव-यमुपजीव्य प्रकरणाऽमृतैर्वृष्टिं चक्रुः कटरि बहुधान्योपकृतये ॥५॥ अलीकार्तिच्छेदो विशदतरता दर्शनविधौ, विभेदोऽन्तर्ग्रन्थेनिहृदयशुद्धिविमलता । सतापोद्यत्-कामज्वरभरहतिः सद्गतिकृतिः त्रिदोषी-मोषोऽपि व्यरचि भगवत्यङ्गभिषजा ॥६॥ सदौषध्याटोपं न घटयसि नो लङ्घनविधि, क्वचिज्जन्तोः प्रख्यापयसि न कषायान् वितरसे । तथाऽप्याधत्से त्वं विषमतमकर्मामयहति; नवीनस्त्वं वैद्यो जयसि भगवत्यङ्ग ! जगति ॥७॥ तदेवं विश्वेषामपहरसि निष्कारणकृतो पकार-स्फारान्तर्गतनत विकारव्रजमपि । विवाहप्रज्ञप्ते ! तदपि मयि बाह्यज्वरभरव्यथाक्रान्ते सम्प्रत्यहह करुणां कि न कुरुषे ? ॥८॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.522703
Book TitleNirgrantha-3
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year2002
Total Pages396
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy