________________
જિતેન્દ્ર શાહ
Nirgrantha शब्दाद्वाच्यवाचकाभ्यामपि सकाशादन्यतोऽपि वा ? आद्य कल्पनायांमनाकलित संकेतस्यापि नालिकेरद्वीपवासिनः शब्दोच्चारणानन्तरमेव पदार्थसार्थप्रतीतिः स्यात् । तदानीं तस्य वाच्यस्य दर्शने तस्य सम्बन्धस्योत्पादनाद अथोत्पन्नोप्यसौ संकेताभिव्यक्त एव वाच्यप्रतिपत्ति- निमित्तम् ननु कार्यकारणभावविशेष एवाभिव्यंग्याभिव्यंजकभावस्तत्र चान्यतोऽपीति विकल्पप्रतिविधानमेव समाधानम् न हि शब्दाः श्वपाका इव वराकाः स्वलक्षण ब्राह्मणं क्षणमपि स्रष्टुमर्हति विकल्पशिल्पिकल्पितार्थमात्रगोचरात्वात् तेषाम् । विकल्पानां चोत्प्रेक्षा- लक्षण - व्यापारपर्यवसितत्वात् । तदुक्तम्
૬૨
विकल्पयोनयः शब्द विकल्पाः शब्दयोनयः । कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्यमी ॥१॥
तदेतदखिलमनिलांदोलितार्कतूल सदृशमिति शब्दार्थयोः सम्बन्ध निराकरणं तत्स्थापने च युक्तियुक्तावस्तु युक्तय रत्नाकरावतारिकातो विज्ञेयास्तत्स्थापनार्थ परप्रणीत कंटकोद्धार प्रकार विशेषण संदर्भितानि वाक्यानि यथा वाच्य वाचकोत्पत्ति-समय- संभूष्णु-शक्ति स्वभावस्याऽबाधितस्तथानुभवेन चित्रज्ञारूपस्पष्टदृष्टान्ता वष्टम्भेन च कृतविरोधपरिहारत्वान्नित्यानित्यस्य वाच्यवाचकाभ्यां कथञ्चिद्भिन्नस्य सामान्यविशेषोभयस्वभाववस्तुगोचरो- परचितसंकेताभिव्यक्तस्य वाच्यवाचक भाव- सम्बन्धस्य बलेन शब्दानामर्थस्य प्रतिपादकत्वं प्रतिपद्य शब्दमेव प्रामाण्यमङ्गीकृतमिति शब्दार्थयोः सम्बन्धसंबद्धत्वं लिखिते ।
पं. यशस्वत्सागरेण संवत् १७५८ वर्षे संग्रामपुरे स्वेन गणिश्री मुनीन्द्रसागर वाचनार्थम् ॥ श्री||
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org