________________
Nirgrantha
અમૃતભાઈ પટેલ शष्यत्वद्गुणचक्रवालजलधेः पारं न यामि प्रभो । आत्मीयोत्कटदुष्टदुष्कृततते ! यामि पारं तथा ॥ तस्माद्देव ! तथा विधेहि भगवन् ! प्राप्नोमि पारं तयोः । सम्यक्त्वेन विधाय भव्यकरुणां कारुण्यपात्रे मयि ॥१६॥ श्रीखंडागुरुधूपवासनिवहैः कर्पूरपूरैस्तथा । काश्मीरदवसांदचान्द्रविहितैः सवंदनैश्चांदनैः ॥ स्वार्मिंस्त्वद्-पदयामलं गतमलं येऽर्चति चर्चाचणाः । लोके लोकिततत्त्वयुक्तहृदया स्तेऽप्यर्चनीयाः सदा ॥१७॥ विष्णुस्त्वं भुवनेऽसि भूपतिरसि श्रेयस्कर: शंकरो । धाता सत्वमहाव्रती शतधृतिः कालारिस्यस्तथा ॥ ऋद्ध्या सिद्धियुतः कृतांतजनको गौरीगुरुस्त्वं सदा । जैने जैनपरैश्च भक्तिभरितैस्त्वं गीयसेऽस्यां भुवि ॥१८॥ दुर्ध्यानदुमखंडखंडनखटादुर्दम्यदंतावलः । श्रीधीराद्विमलप्रबोधकमलप्रीतिप्रदानोज्ज्वलः ॥ सध्यानप्रबलप्रतापबहुलज्वालावलीधूमलध्वस्ताशेषमलः खलीकृतमलः सिद्ध्यङ्गनाकामलः ॥१९॥ मूनि स्फारफणीन्द्रजालजटिलोऽक्षद्रक्षमाकंदलः । सम्यग्ज्ञानजलप्रवाहपयसाप्रक्षालितक्ष्मातलः ॥ धैर्यस्वर्गनगः सुसाधितकलादौर्गत्यवारार्गलः । दत्ताभीष्टफलः पुनाति भुवनं पाश्वो घनश्यामलः ॥२०॥ त्वं मातापितरौ त्वमेव सुगुरुस्त्वं जीवनं त्वं सखा । त्वं त्राता भवसिंधुमज्जनभयात् तत्त्वं त्वमेवानिशम् ॥ त्वं विद्याः सकलास्त्वमेव परमाधारस्त्वमेवेहितं । ज्ञात्वेति प्रभुतां दिशेति भगवन् सर्वार्थसिद्धिप्रदाम् ॥२१॥ श्रीशंखेश्वरतीर्थभूषणमणे ! श्रीयुक्तपार्श्वप्रभो । भक्त्यैवं नय पूर्वता विमलयुक् नाम्ना मया संस्तुतः ॥ भूयास्त्वं भवभीतिभेदभिदुराकारोपमानः सदा । गीर्वाणगुमसंनिभो मम सदा सर्वेष्टसंपत्तये ॥२२॥
उपजाति स्तोत्रं पवित्रं पठति प्रभाते ।
पार्श्वप्रभो र्यो मतिमान्नितांतम् ॥ त्रिसंध्यमेतत् खलु तस्य सर्वाः । , विद्याः मुखाब्जे विलसंति हृद्याः ॥२३॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org