________________
મધુસૂદન ઢાંકી અને જિતેન્દ્ર શાહ
Nirgrantha
श्री कुमुदचन्द्राचार्य कृताः श्री आदिनाथ स्तुति अपरनामा श्री चिकुरद्वात्रिंशिका
(शिखरणी छन्द) मुदेवस्ताद्देव स्त्रिदिवयुवतीमौलिवलभी
विटङ्कप्रक्रीडन्मुकुटपटलीलालितपदः । स चिंतामाणिक्यामरसुरभिकल्पावनिरुहां
सनाभिर्नाभेयस्त्रिभुवनवनीजीवनघनः ॥१॥
गलगर्वग्रन्थिः प्रथमजिननाथस्तुतिपथे
न पांथीभूयन्ते धिषणधिषणाऽपि प्रथयति । ममायं विस्फायत्तरणि किरणश्रेणिसरणे
तदेवं हेवाको वियति नियतं वल्गनमयः ।।२।। स्फुरत्वाल्यावस्थासुलभविभवाच्चापल-कला
विलास-व्यासंग-व्यसनरसतः किं नु नटितः । इमां बालां बुद्धिं तव नव नवक्रीडनलवै
स्त दिक्ष्वाकुश्रीणां रमण ! रमयिष्यामि किमपि ।।३।।
उदश्चत्पौलोमी हृदयदयित-प्रार्थन-कथा
प्रथाबीजं स्कन्धद्वयसुचरितश्रीपरिणते । त्रिलोकीनेत्राणाममृतमयसिद्धाञ्जन मियं
कवीनां सन्नीवीवरदकबरी ते विजयते ॥४॥
त्वदीयाङ्गे रङ्गत्कनककणिकाकान्ति-कपिशे
जगद्वन्धोस्कन्धद्वय शिखरभित्तौकचलता । युगादौ सद्धर्मप्रथनभवने दोषहतये
दधौ नीलीनीलाञ्जनमयनवस्थासककलाम् ।।५।।
बभौ ना भिक्षोणीधवभव ! भवत्केशकुरली
निलीना पीनांसस्थलफलकयोः कजलकला । गृहीतेवोन्माद्यन्मदमदनसंरंभकदना
भुजाभ्यां मायूरीस्फुटमुपरितछत्रयुगली ॥६।।
अहं मन्ये धन्ये नहि महिमभूयिष्ठ ! भवता
भवांभोधिर्भीमोप्युभयभुजहेला भिरभितः । ललऽ दुर्लबो लघु लसति केशावलि निभा
निरेना येनांसे सलिल शबला शैवललता ॥७॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org