________________
પ્રદ્યુમ્નવિજય ગણિ
Nirgrantha
अत्यन्त सुस्वादु मयैव भोज्यमिदं तथा नेति न भक्ष्यमेतत् । इत्यादि सर्वं रसना जितेन कृतं मया षड्सलोलुपेन ॥२४॥
(दानादि चार प्रकारना धर्म) दानं सुपात्रेन कदाऽपि दत्तं कीर्त्यादि दाने प्रगुणी कृतं मनः । न धर्मकृत्यस्य कृता समीहा निरर्थकं जन्म गतं ममेदम् ॥२५॥ मिथ्यात्वदुर्वासितचेतसो मे, रुचिर्न च स्याच्छुचि जैनधर्मे । नानाविधव्यञ्जनकल्पितेऽपि, ज्वरादितस्येव मनोज्ञ भोज्ये ॥२६॥ लोभेन तत्तोषकृते गतागतं, मया कृतं धामवतां गृहे सदा। न ध्यानलीनेन जिनेन्द्र ! निर्जने महावने नैव समाधिना स्थितम् ॥२७॥ सदा सदाचार विचारवद्भि-दत्तं मनोहारि यदेव वासः । नैवोपभोगाय मयापि कल्पितं, दत्तं न चान्यस्य (स्मै) तथैव तद्गतम् ।।२८।। तत्तन्मनोहारि पदार्थ सार्थे, जिनेश! दृग् पथमागते सति । तल्लिप्सयैवात्र मनो मदीयं सदैव संतप्तमिवावतिष्ठत् ॥२९।। मया कृतं चेत् सुकृतं कदाचित्, गर्वेण सर्वं विफली कृतं तत् । अतोऽत्र नामुत्र च किंचनापि, भोक्तव्यमस्तीति भृशं भयं मे ॥३०॥ दुष्टा मदीया रसना निकृत्या, पुर: परेषां मधुरं ब्रवीमि । विभाव्य सम्यग् हृदि किन्तु नैवं शिवप्रदः शान्तरसो रसेन्द्रः ॥३१॥ समागते पर्वणि तत्तपोऽर्थे श्रद्धावतां स्वीय मतानुरागिणाम् । दत्तो मया तीव्रतरोपदेशो न चात्मना तद् विहितं हतेन ॥३२।। दुरात्मना नाथ मया कदापि, विटेन शीलस्य कथैव नो कृता। तद्हेतुक: कोऽपि शुभोपदेशस्तथा परेषामपि न प्रदत्तः ॥३३॥ यदीय सद्ध्यान रसेन्द्र योगात् संजायते स्वात्मनि तारभावः । तथापि मूढेन मया तदर्थमभ्यर्थिता: केचन योगिनोऽपि ॥३४॥
भ्रान्तिं विमोहान्मम कारयन्ति वाक्यानि तेनाथ यथास्थितानि । स्थाने हि तद् ग्रीष्म भरान्मरीचिका पुंसां जलभ्रान्तिकरी न किंस्यात् ॥३५॥ महीतले निर्दय मानवानामहं विधात्रा विहितोऽस्मि मुख्यः । करंक शेषानपि वीक्ष्य रंकान् यतो न जाता हृदि मे दयापि ॥३६।। मया कृतं यत् सुकृतं क्रियादिकं करिष्यते यत् क्रियते च नित्यम् । फलेग्रहि ! भविता ममैद्यतो न निर्दभतया विधीयते ॥३७॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org