________________
92 VAISHALI INSTITUTE RESEARCH BULLETIN NO. I
मापयतीति तदवस्थैव जीवसिद्धिः । प्रथाभिन्नम्, तथा सति समस्त भूतानामैक्यं प्रसजति, एकचैतन्याव्यतिरिक्तत्वात्, तस्वरूपवत् । निजनिजचैतन्याव्यतिरेकीणि भूतानि तेनायमदोष इति चेन्न, तत्संपाद्यपुरुषशरीरेऽपि तज्जन्यपश्वचैतन्यप्रसङ्गात् । पञ्चापि संभूय बृहत्पुरुषचैतन्यं बहवस्तिला इव तैलघटं जनयन्तीति चेत्, तत्तर्हि पुरुषचैतन्यं किं तेषामेव संयोगो यद्वा तदुत्पाद्यमन्यदेव ? यद्याद्यः कल्पः, तदयुक्तम्, चैतन्यानां परस्परं मिश्रणाभावेन संयोगविरोधात् इतरथा बहुपुरुषचैतन्यानि संभूय बृहत्तमचैतन्यान्तरमारभेरन् । अथ द्वितीयः पक्षः, तत्रापि तेषां किमन्वयोऽस्ति नास्ति वा ? यद्यस्ति तदयुक्तम्, प्राग्वत्तज्जन्यचैतन्यपञ्चरूपतापत्तेः । अथ नास्ति, तदप्यचारु, निरन्वयोत्पादस्य प्रमाणबाधितत्वात् तन्न सचेतनानि भूतानि चेतना - करणे व्यापारभाञ्जि भवितुमर्हन्ति । नापि निश्चेतनानि तेषामत्यन्तविलक्षणतया चैतन्योत्पादविरोधात इतरथा सिकतादयस्तैलादिकरणे व्याप्रियेरन् । कि च तत्समुदायमात्रसाध्यं वा चैतन्यं स्यात्, विशिष्टतत्परिणामसाध्यं वा ? न तावदाद्या क्लृप्तिः, इलाजलानला निलनभस्तल मीलनेऽपि चेतनानुपलब्धेः । द्वितीय विक्लृप्तौ पुनः किं वैशिष्ट्यमिति वाच्यम् । कायाकारपरिणाम इति चेत् स तहि सर्वदा कस्मान्न भवति ? कुतश्चिद्धेत्वन्तरापेक्षरणादिति चेत, तत्तर्हि हेत्वन्तरं भवान्तरायातजीवचैतन्यमित्यनुमिमीमहे, तस्यैव कायाकारपरिणामसाध्य चैतन्यानुरूपोपादानकारणत्वात्, तद्विरहे कायाकारपरिणामसद्भावेऽपि मृतावस्थायां तदभावात् गमनादिचेष्टानुपलब्धेः तन्न कायाकारपरिणामजन्यचैतन्यम्, अपि तु स एव तज्जन्य इति युक्तं पश्यामः । न प्रत्यक्षादन्यत प्रमाण
1
2
शरीरजनकेषु भूतेषु चैतन्यं कल्पयति । तथा तत्रापीति । तेष्वपि भूतेषु तैर्भूतैः सह वर्तते यच्चैतन्यं तदपि स्वजनकेषु भूतेषु तेभ्यो भूतेभ्यो भिन्नमात्महेतुमपरं चैतन्यं गमयतीति । तदवस्थेति । श्रनवच्छिन्नचेतन्यसंतानस्य जीवरूपत्वादित्यभिप्रायः । निरन्वयोत्पादस्य प्रमाणबाषित्वादिति । अनुवृत्तव्यावृत्त वस्तुग्रहणपरिणाम: प्रत्यक्षं यथा च तेन मृत्पिण्डादुत्पद्यमानं घटादि मृद्रव्यात्मनानुगतम्, घटघटीशरावोदञ्चनाद्यपि पर्यायापेक्षया व्यावृत्तं वीक्ष्यते, ते च भेदाविशेषेऽपि घटपटाष्विव स्थासकोशादिषु विलक्षणैव प्रतिपत्तिः, तथा चैतन्यमपि पूर्व चैतन्यादुत्पद्यमानं चिद्रूपतयानुवृत्तं सितपीतादिबोधरूपतया तु व्यावृत्तं स्वसंवेदन प्रत्यक्षेणैव व्यवस्थाप्यते इति प्रत्यक्षसिद्धान्वयः तेन च निरन्वयोत्पादकान्तो बाधितः । तथा हि--पूर्वी ज्ञानक्षण उत्पद्यमानक्षरणात् कथंचिदभेदी, उपादानत्वे सति कारणत्वात्, यः पुनः कथंचिदभेदी न भवति नासवुपादानत्वे सति कारणम्, यथा प्रालोकः, न चायमुपादानत्वे सति न कारणम्, तस्मात् कथंचिदभेदीति । उपादानत्वं हि कार्ये कथंचित् स्वकर्मारोपकत्वेन व्याप्तम्, तच्च सहकारिणामपि प्रसङ्गादेकान्तभेदे नोपपद्यते । ततो भेदतन्निवर्तमानं स्वव्याप्यमुपादानत्वमपि निवर्तयतीति व्याप्तिसिद्धिः । ततः स्थितमेतत् प्रमाणबाधितत्वादिति । अत्यन्त विलक्षरणतया चैतन्योत्पादविरोधादिति । श्रयमभिप्रायः -- भूतैश्चैतन्यं जन्यते इति भूतान्येव चैतन्यरूपतया परिणमन्ते इति परिणाम एवोत्पादार्थो भवतामभिप्रेतः, न चैकान्तवैलक्षण्ये परिणामो घटामियति, एतच्च प्रत्यक्षसिद्धमेव, तथापि दृढत्वाद् विप्रतिपत्तेरनुमानमध्यभिधीयते -- चैतन्यं विजातीयपरिणामो न भवति, उत्पत्तिमत्वात् यदुत्पत्ति
Jain Education International
1
For Private & Personal Use Only
www.jainelibrary.org